This page has not been fully proofread.

6]
 
प्रथमसर्गः
 
1
 
गुणाः यस्यां सा अगुणा 'नजोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपश्च
इत्युत्तरपदलोपः । तादृशी सत्यपि । विद्वज्जनान् रञ्जयितुम्
आह्लादयितुम् शीलमस्या इति विद्वज्जनरञ्जिनी पण्डितजनाह्लाद
जननीत्यर्थः । हेतुमण्ण्यन्ताद्रञ्जेः 'सुप्यजातौ' इति णिनिः । "तौ
हनूमन्तमानेतुमोषधीं मृतजीविनीम्" इत्यादिवत् । आन्ध्रयामस्मदीय
व्याख्यायां द्रष्टव्यमत्र चर्चाविस्तरमभिलषद्भिः । तादृशी न नभवति ।
उक्तविषये दृष्टान्तः प्रदर्श्यते । पत्यौ भर्तरि व्रतम् नियमः सर्वदा
मनोवाक्कायकर्मभिस्तदनुसरणरूपः यस्याः सा तथोक्ता । तादृश्यपि
सौशील्यवत्यपि इति यावत् । अपिः अपर्याप्तिवचने । तावता नाल
मित्यर्थः । अविद्यमानं रूपम् आकृतिविशेषः सौन्दर्यम् यस्याः तथोक्ता ।
रूपविरहितेत्यर्थः । ' रूपं तु श्लोकशब्दयोः । पशावाकाशे सौन्दर्य
नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च' इति हैमः । स्त्री वनिता ।
स्त्यायते: ड्रूट् औणादिकः । ङीप् । परिणेत्रे भर्ते न रोचते न स्वदते ।
भर्वभिमता न भवतीत्यर्थः । रूपगुणयोरुभयोरपि सत्त्वे यथा प्रीयते
भर्ता न तथा शीलेनैकेनेति भावः । रुच अभिप्रीतौ ' इत्यस्मालट् ।
 
(
 
"
 
● रुच्यर्थानां प्रीयमाण: ' इति चतुर्थी । दोषराहित्यमात्रेण काव्यं न
शोभते । रसधर्मेश्श्लेषप्रसादादिभिर्गुणैरपि तावश्यंभाव्यमित्युच्यते । अत
एव प्राणा इति गुणान् व्यवहरन्त्यालङ्कारिका: । " यत्र गुणास्तत्र
रूपम् " " न रूपमित्यव्यभिचारि तद्वचः " इत्यादिभिर्गुणानां रूपस्य च
यद्यपि समनैयत्यमवगम्यते तथापि लोके तद्वैपरीत्यमपि प्रत्यक्षदृष्टमिति
तेषां वचनानां प्रायशस्तथेत्यत तात्पर्यमित्यवगन्तव्यम् । अत्र सौशील्य
संवलितं कान्तासौन्दर्यं भर्तारं यथा नन्दयति गुणैरलङ्कृतं दोषरहितं
काव्यं सहृदयांस्तथैवानन्दयतीति वैधर्म्येण साधर्म्यस्य वस्तुप्रतिवस्तुभावतो
निर्देश इति प्रतिवस्तूपमालङ्कारः ॥
 
काव्यस्वरूपमाख्याय दोषैकपरान् कुकवीनाक्षिपति
 
25
 
,