This page has not been fully proofread.

मधुराविजये
 
(
 
मात्रा परिच्छदे । अल्पे च
 
"
 
फणरत्नशोभा: " इत्यत्र कुमारसंभवे यथा । तर्कशास्त्र मर्यादाप्येव
मेव " सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुप
संक्रामतः । सति विशेषणे बाधे विशेष्यमुपसंक्रामतः" इति । तम्
यथा तमित्र ' व वा यथा तथैवैवं साम्ये' इत्यमरः । ईषत् अल्पम्
मात्रा परिमाणम् यस्य तथोक्तः ।
परिमाणे स्यात् '
इत्यमरः । तादृक् दोषः अपि काव्यदोपलेश
संभावनाऽपीत्यर्थ: । अपि संभावनायाम् । काव्यदोषांश्च पदपदार्थ
वाक्यवाक्यार्थादिगतत्वेन बहुधा प्रत्यपादयन् काव्यज्ञाः । प्रबन्धम् काव्यम् ।
प्रवन्धशब्दश्च काव्यवाची । "पद्यप्रबन्धमिव दर्शितसर्गभेदम् " इत्यादौ
तथा दर्शनात् । प्रबन्धस्येत्यर्थः । नयतेद्विकर्मकत्वात् 'अकथितं च '
इत्यप्रधाने कर्मणि द्वितीया । दूष्यम् दूषणीयम् तस्य भावः दूष्यता
ताम् । प्रबन्धपक्षे गर्हणीयताम् विद्वज्जनैरपरिग्राह्यताम् । अगरुपक्षे
( दुष वैकृत्ये ) विकृतिभाजनताम् सौरभराहित्येन वैरूप्यापादनेन च
सर्वजनहेयतामित्यर्थः । दुष वैकृत्ये - इति दिवादेर्ण्यन्तात् 'अचो यत् '
इति यत् । 'दोषो णौ' इत्युपधाया ऊकारः । नयति प्रापयति

जनयति आपादयति इत्यर्थः । काव्येऽल्पोऽपि दोषो नोपेक्ष्य इति
भावः । तथाचाह दण्डी
" तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं
 
"
 
कथंचन । स्याद्वपुस्सुन्दरमपि श्वित्रेणैकेन दुर्भगम्
 
इति । " एको
 
हि दोषो गुणसन्निपाते निमज्जतीन्दो: किरणेष्विवाङ्कः" इत्यादयस्तु
काव्यव्यतिरिक्तविषया इत्यवगन्तव्यम् । अलङ्क तिस्तु श्लेषोपमा ॥
 
काव्ये गुणानामप्यवश्यंभावितां तावदाचष्टे -
 
निर्दोषाऽप्यगुणा वाणी न विद्वज्जनरञ्जिनी ।
पतिव्रताऽप्यरूपा स्त्री परिणेत्रे न रोचते ॥ ॥ 19 ॥
 
24
 
-
 
निर्दोषा
 
निर्दोषेति ॥ दोषेभ्यः काव्यदोषेभ्यः निर्गता बहिर्गता
दोषरहितेत्यर्थः । तादृश्यपि वाणी कवेः वाक् काव्यमित्यर्थः । अविद्यमानाः-