मधुराविजयम् /158
This page has not been fully proofread.
प्रथमसर्गः
•
श्रुती अपीममेव प्रत्यपादयताम् । यस्मिंश्च तत्तत्पदार्थानां विभावादीनां
सर्वेषामपि परब्रह्मणि मायाप्रपञ्चस्येव लयः, तस्य च भेदारशृङ्गा
रादयो नव त इत्यर्थः । अङ्गाङ्गिभावेन सम्यक्सङ्घटितास्ते केषुचित् ।
तथापि शब्दसौष्ठवादयस्तत्र न सन्तीति भावः । असाधुशब्दै रपि
साक्षाद्वा साधुशब्दस्मरणाद्वा अर्थबोध इत्यङ्गीकृतत्वेन तैरपि रसः
पुष्यत इत्यत्र बाधकाभावात् । यत्र यस्मिन् काव्ये एते पूर्वोदिता
शब्दार्थरसभावाः सर्वेऽपि नैकमप्यपरित्यज्य चत्वारोऽपीत्यर्थ: । सन्ति
तिष्ठन्ति । असेर्लट् । 'इनसोरल्लोपः' इत्यल्लोपः । सः तादृक् निबन्ध:
काव्यम् न लभ्यते न प्राप्यते । लोके न दृश्यत इत्यर्थः । अतएव
स्वक़ाव्यस्यावश्यकतेति भावः । अनेनास्य काव्यस्य शब्दार्थभावरस
पौष्कल्यं व्यज्यते । किञ्च शब्दार्थादीनां सर्वेषामपि सम्यक्सङ्घटनं
केनाऽपि दुश्शकम् । अतो मच्चापलमवश्यं क्षन्तव्यमिति स्वविनय
सम्पत्तिराविष्क्रियते च व्यङ्ग्यमर्यादया। अप्रकृतेन स्वेतरकाव्यप्रस
जन प्रकृतस्वकाव्यस्य प्राशस्त्यं वर्ण्यत इत्यप्रस्तुतप्रशंसालङ्कारः । तदु
क्तम्, "अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया " इति । क्वचित्क्वचि
दिति पुनःपुनरावृत्तेः वृत्त्यनुप्रासो नाम शाब्दोऽलङ्कारोऽपि ॥
।
कवयित्री स्वगुरुपरम्परां संस्तुत्य स्वनिबन्धनस्य स्वरूपमिदानी
माविष्करोतीव काव्यस्वरूपं तावदाचष्टे
-
प्रबन्धमीषन्मात्रोऽपि दोषो नयति दृष्यताम् ।
कालागरुद्रवभरं शुक्तिक्षारकणो यथा ॥
23
॥18॥
प्रबन्धमिति ॥ शुक्तेः क्षार: मौक्तिकसुधा तस्य कण: लेश:
लव: कालं च तदगुरु च कालागुरु कृष्णागवित्यर्थः । अगुवंगरु
राजर्ह ' मिति हैमः । " नागरुचितस्तिलक: " इति दमयन्तीश्लेषः ।
तस्य द्रवभरः अतिशयितो द्रव इत्यर्थः । पूर्वपदार्थम्
तत्प्राधान्ये नैवान्वयस्य स्वीकारे
चमत्कारात् ।
(
विशेष्यम् मत्वा
" तथैव
तस्थुः