मधुराविजयम् /157
This page has not been fully proofread.
22
मधुराविजये
क़ाव्यप्रकाशे " अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यै
रवाच्यार्थधीकृद्वयापृतिरञ्जनम् ॥" इति ॥
काव्येष्वनेकेषु सत्सु किमनेनेत्याशङ्कां निराचष्टे -
क्वचिदर्थः क्वचिच्छब्दः क्वचिद्भावः क्वचिद्रसः ।
यत्ते सन्ति सर्वेऽपि स निबन्धो न लभ्यते ॥ ॥17॥
क्वचिदर्थ इति ॥ क्वचित् कुलचित् केषुचित्काव्येष्वित्यर्थः ।
'किमोऽदि 'ति सप्तम्यन्तात्किम अत् । 'क्वाति' इति किम क्वादेशश्च ।
अर्थ: प्रशस्तः अर्थः वाच्यलक्ष्यव्यङ्ग्यरूपः । अर्थशब्दवायं निरुपपदः
प्रशस्तमर्थमभिदधाति । यथावा निरुपपदो गुणशब्दश्शोभनं गुणं शब्द
शक्तिस्वाभाव्यात् । एवमुत्तरत्राऽपि । प्राशस्त्यं चाप्यर्थानां तत्तद्दोषराहित्येन
गुणपरिग्रहणेन च । अस्तीत्यव्याहारस्सर्वत्र क्रियापेक्षायाम् । "अस्ति
र्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति" इति महाभाष्यवचनात् ।
तथा चार्थपोकल्यमेव केपुचिन्न शब्दादिसौष्ठव मिति भावः । क्वचित् ।
शब्दः प्रशस्तशब्दजातम् । प्राशस्त्यं च शब्दानां साधुत्वादिना । केषु
चिच्छब्दसौष्ठवमेव नार्थपौष्कल्यादय इति भावः । क्वचित् भावः -
भावसम्पत्तिः भावौन्नत्यम् भावगाम्भीर्यमिति यावत् । यद्वा असन्त
मप्यर्थं सन्तमिव साक्षात्कुर्वन्त्या कविप्रौढोक्त्या सिद्धाः कल्पनाविशेषा
परपर्याया भावशब्देनोच्यन्ते । सामान्यवाचिनश्शब्दा विशेषेष्वपि वर्तन्ते ।
यथावा वृक्षशब्देन तद्विशेषश्चतः । केषुचिद्भावपकल्यं वर्तते नार्थ
गौरवशब्दसौष्ठवादय इति भावः । अथवा भावशब्देन रत्यादिः स्थायी
सज़ातीर्थैविजातीयैश्च भावैरतिरस्कृतमूर्तिमानुच्यते । केषुचिद्रत्यादयस्सुष्ठु
सम्पद्यन्ते न शब्दसौष्ठवादयस्तदितरे इति भावः । क्वचित् । रस्यते
आस्वाद्यते तादात्म्यभावनयाऽनुकार्यस्य सुखदुःखाद्यानन्दमयत्वेन सामा
जिकैरिति रसः । "रसो वै सः, रसग्ग् ह्येवायं लब्ध्वाऽऽनन्दी भवती "ति