मधुराविजयम् /156
This page has not been fully proofread.
5]
प्रथमसर्गः
-
"
ष्वपीत्यपिशब्दार्थः। स्त्रियामस्यां कवयित्र्यां पुंलिङ्गनिर्देशो न विरुध्यते ।
यथाह रत्नापणे कुमारसोमपीथी - " प्राचामियं शैली – यदयं लिङ्ग
व्यत्यासेन निर्देशः' इति । यथा स्त्रीव्यक्तौ शिखण्डी इति पुंस्त्वेन
व्यवहारः । यथाचेन्द्रं पुमांसमपि श्रुतिरेव सुब्रह्मण्येति स्त्रीत्वेन निदिशति-
तथाच षड्विशब्राह्मणम् - 'सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्यो मिति त्रयमिव
विराह " इति । अतएव नाट्यशास्त्रादिषु नट इत्यादिनिर्देशा: स्त्री
पुरुषसाधारण्येन सङ्गच्छन्ते । महाकवयोऽपि " सतां हि सन्देहपदेषु
वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः " इत्यादीनुभयसाधारण्येनैव प्रयुञ्जते ।
यद्वा 'मादृश्यश्च मादृशाश्व' इति विग्रहे 'पुमान् स्त्रिया' इत्येकशेषेण
निर्देशो वा । सर्वज्ञस्य भावः सार्वज्ञयम् सर्वज्ञत्वम् भावे प्यञ् । सर्ववस्तु
विषयकज्ञानम् । अन्यत्र - ईश्वरभावः सोऽहमीश्वर इत्यात्मनि ब्रह्मदर्शन
मित्यर्थः । समिन्धे प्रज्वलति प्रस्फुरति सम्यक् प्रकाशते । सः तादृक्
कवीनाम् कवयित्ॠणाम् । ईश्वर ईश्वर इव । ईश्वरो यथा जगन्नियन्ता
तद्वदयमपि कविलोकस्येति ईश्वरशब्दः राजपर्याय: । 'ईश्वरो मन्मथे शम्भौ
नाऽऽढये स्वामिनि वाच्यवत्' इति विश्वमेदिन्यौ । एतेन 'कविराज'
इत्यस्य पौरुषनामाप्युक्तं भवति । ईश्वरपक्षे कवीनाम् कान्तदर्शिनाम्
इन्द्रियातीतविषयज्ञानवताम् सर्वज्ञानामिति यावत् । ईश्वरः प्रभुः इत्यपि ।
विश्वनाधः तन्नामा कविः, पक्षान्तरे विश्वेश्वरश्च । चिरम् बहुकालम् ।
विजयः सर्वोत्कर्षः सोऽस्यास्तीति विजयी सर्वमूर्धसु स्थितस्सन् अन्यत्र
सर्वदेवताचक्रवर्ती सन् । 'अत इनिठनौ ' इति मत्वर्थीय इनिः । भूयात्
भवतादित्याशास्यते । 'गुरुर्देवो महेश्वरः' इति स्वगुरुमीश्वरतया भाव
यन्ती स्वभक्त्यतिशयं तस्मिन्नाविष्करोति कवयित्री । अत्र प्राकरणि
कार्थमात्रपर्यवसितार्थाश्शब्दाः अर्थान्तरधियमुत्पादयन्तीति शब्देनार्थान्तर
धीकृद् ध्वनिरयम् । नचेयं तुल्ययोगिता । प्रकृताप्रकृतविषयोऽयमिति
तदनुत्थानात् । नचायं श्लेषः । प्रकृताप्रकृतश्लेषे विशेष्यश्लेषायोगात् ।
नैव समासोक्तिः । विशेषणसाम्यमातोपजीवित्वात्तस्याः । अतएवोक्तं
-21