This page has not been fully proofread.

मधुराविजये
 
प्रयोजनयोद्धृभ्यः
 
इत्यण् । तम् अधिकृत्य कृतो ग्रन्थः
 
भारतः ।
 
"
 
अधिकृत्य कृते ग्रन्थे ' इत्यण् । तस्य इयम् । तस्येदम्
 
इत्यण् ।
 
' टिढाणञ्' इत्यादिना ङीप् । ताम् भारतसम्बन्धिनीम् महाभारत
प्रतिपाद्यामिति यावत् । कथाम् गाथाम् । दृष्टाम् दृष्टिगोचरां सतीम्,
कविना प्रत्यक्षमवलोकिताम् इतिहासभूतां सतीमिति च गम्यते ।
चक्रे अकरोत् आरचयत् । पुराकृतसुकृतसमुपलब्धेन स्वभावनाबलेन
भावकानामद्यतनानामपि नेत्रवद्धां तामकरोद्वयास इवायमपीति भावः ।
अत एव तम, अपरव्यासम् व्यासाद्भिन्नं व्यासम, द्वितीयं व्यासमित्यर्थः ।
व्याससदृशमिति यावत् । तादृशम् गङ्गाधर इति महाकविः गङ्गाधर
महाकविः तम् महाकवि गङ्गाधरनामा नमित्यर्थः । स्तुमः नुमः वय
मिति शेषः । अहं स्तौमीत्यर्थः । अस्मदो द्वयोश्च' इत्येकत्वविवक्षा
'
यामपि बहुवचनम् । सर्वथा व्यासवदत्यन्तं पूजा विद्वन्महाकविरयं
स्वरचनयेति सारांशः । अपरं व्यासमित्युक्तेरतिशयोक्तिरलङ्कारः । नाटकं
न चक्रे केवलं भारतकथामेव दृष्टां चक्रे इत्युक्त्या नाटकत्वस्य मिथ्यात्व
प्रतिपादनं कृतं छद्मशब्देनेति कैतवापह्न
तिरपि । सेयमपह्न तिरति
शयोक्तावुपकरोतीत्येतयोरङ्गाङ्गिभावेन संकरश्च ॥
 
"
 
20
 
"
 
कीर्तयति
 
"
 
>
 
"
 
तांस्तान् कवीन् स्तुत्वा स्वगुरुदेवं सौगन्धिकापहरणकर्तारं
 
चिरं स विजयी भूया द्विश्वनाथः क़वीश्वरः ।
यस्य प्रसादात्सार्वज्ञचं समिन्धे मादृशेष्वपि ॥ ॥16॥
 
चिरमिति ॥ यस्य गुरुदेवस्य पक्षान्तरे ईश्वरस्य च, प्रसादात्
अनुग्रहेण 'विभाषा गुणेऽस्त्रियाम्' इति पञ्चमी । अहमिवायं ज्ञानविषयो
भवति मादृशः । 'त्यदादिषु दृशोऽनालोचने कञ्च' इति अस्मच्छन्दात्
कञ् । 'त्वमावेकवचने' इति मादेशः । तेषु अस्मादृशेषु मन्दबुद्धि