This page has not been fully proofread.

प्रथमसर्गः
 
चतुस्सप्ततिकाव्योक्ति व्यक्तवैदुष्यसम्पदे ।
 
अगस्त्याय जगत्यस्मिन् स्पृहयेत्को न क़ोविदः ॥ ॥13॥
 
19
 
चतुस्सप्तेति ॥ अस्मिन् जगति एतस्मिन् लोके । सप्तदशतः परि
माणमस्य सप्ततिः । 'पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्य
शीतिनवतिशतम् ' इति सप्तानां दशतां सप्तभावः, त्रिप्रत्ययश्च निपा
त्यते । चतुरधिका सप्ततिः चतुस्सप्ततिः । सा च काव्यानि चतुस्सप्तति
काव्यानि। विशतिर्गाव इतिवत् । 'विंशत्याद्यास्स दैकत्वे सर्वास्संख्येय संख्ययोः' ख्या?
इत्यमरः । कवयति वर्णयतीति कविः । तस्य कर्म काव्यम् । 'गुणवचनब्राह्म
णादिभ्य' इत्यादिना ब्राह्मणादित्वात् ष्यञ्। तच्च पङ्कजादिपदवद्योगरूढत्वेन
रससमुल्लसित चमत्कारकारिवाक्यसङ्घटनात्मकमेव । न तु कवयितुस्स
कर्म । तथाविधानि चतुरुत्तरसप्ततिसंख्यानि काव्यानि तेन कृतानी
त्यर्थः । तेषाम् उक्तयः गद्यपद्यात्मकानि वचनानि । ताभिः व्यक्ता स्फुटा
लोके सर्वैविदिता । विदुषो भावः वैदुष्यम् । भावे ष्यञ् । तस्य सम्पत्
आधिक्यम् पाण्डित्यप्रकर्ष इत्यर्थः । सा यस्य तस्मै अगस्त्याय तन्नाम्ने
क़वये क़ः कोविदः कोवा विद्वान् न स्पृहयेत् नाभिलषेदिति काकुः ।
सर्वेऽपि विद्वांसस्तदुक्तिसमाकलने नितरां श्रद्दधतीति सम्भाव्यत इत्यर्थः ।
सर्वविबुधजनसमाह्लादका अगस्त्यस्य वाग्गुम्फा इति भावः । 'स्पृहे
रीप्सित' इति चतुर्थी । फलेभ्यः स्पृहयतीतिवत् । सम्भावनायां लिङ् ॥
अथ सिद्धनाथतनयं गङ्गाधर भट्टनामानं स्वगुरोर्गुरुं प्रस्तौति -
 
स्तुमस्तमपरं व्यासं गङ्गाधरमहाकविम् ।
नाटकच्छद्मना दृष्टां यश्च भारती कथाम् ॥
 
111511
 
स्तुमइति ॥ यः विद्वान् नाटकम् इति छद्म व्याजः तस्य
दृश्यकाव्यत्वात् । निमित्तमात्रत्वेन तदुपादानमिति भावः । तेन भारती
' संग्रामे
भारताः भरतवंश्याः योद्धारः अस्य संग्रामस्य भारतः ।