मधुराविजयम् /152
This page has not been fully proofread.
4]
अथ कृष्णकर्णामृतकाव्यकर्तारं लीलाशुकमान्ध्रदेशीयं शंसति –
मन्दारमञ्जरीस्यन्दि
मकरन्दर साब्धयः ।
कस्य नाह्लादनायालं कर्णामृतकवेगिरः ॥
"
प्रथमसर्गः
12 11
मन्दारेति ॥ कर्णामृतम् कृष्णकर्णामृतनामकं काव्यम् । नामैकदेशे
नामग्रहणमिति न्यायात्तस्यैव एष व्यवहारः । तस्य कविः कवयिता कर्णा
मृतकवि: लीलाशुकः । तस्य । शेषे षष्ठी । मन्दारा: देवतावृक्षाः तेषां
पुष्पाणि मन्दारा ' पुष्पमूलेषु बहुल' मिति विकारार्थकप्रत्ययस्य लुप् ।
लुपि युक्तवद्वयक्तिवचने' इति लिङ्गवचने । तेषां मञ्जर्यः पुष्पगुच्छाः
"
ताभ्य: स्यन्दन्ते स्रवन्ति इति मन्दार मञ्जरीस्यन्दिनः मकरन्दाः पुष्परसा:
मकरन्दः पुष्परसः' इत्यमरः । त एव रसाः जलानि शृङ्गारादिरसा
वा 'रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः ।
शृङ्गारादौ द्रवे वीर्ये
देहधात्वम्बुपारदे ' इति विश्वः । तेषाम् अब्धयः
।
समुद्राः तथोक्ताः । गिरः
वाचः । समुद्रा यथा जलनिर्भरास्तथा मधुभरिता रसनिर्भरा वा एता इति
भावः । कस्य कस्यवा जनस्य आह्लादनाय प्रीणनाय । कं वा जनं प्रीणयितु
मित्यर्थ: । नालम् न पर्याप्ता इति काकुः । सर्वानप्यानन्दयन्त्येवेति भावः ।
'नमस्स्वस्ती' त्यादिना चतुर्थी । गिर इति बहुवचनेन सर्वा अपि
वाचः मधुस्राविण्य इति तस्य वैलक्षण्यमितरेभ्योऽवगम्यते । गिरामब्धि
त्वरूपणान्मकरन्दे रसत्वरूपणाच्च रूपक्रमलङ्कारः ॥
17
आन्ध्रमहाभारतकर्तारं तिक्कयज्वानं स्तुवति साभिमानम
तिक्कयज्व कवेस्सूक्तिः कौमुदीव कलानिधेः ।
सतृष्णं कविभिस्स्वैरं चकोरैरिव सेव्यते ॥
-
111311
तिक्कयज्वेति ॥ तिक्कयज्वा तिक्क़सोमयाज़ी सोमयाजी
तिक्काख्य इत्यर्थः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । क्रियाशब्द
संज्ञाशब्दयोस्समासे संज्ञाशब्दस्यैव विशेष्यतेति नियमात्तस्यैव पूर्वनिपात