This page has not been fully proofread.

मधुराविजये
 
श्रूयते । सरस्वती वाक् वाचःतदधिष्ठानदेवतायाश्चाऽप्य
 
भेदोपचारात् । लब्धः
 

 
वर्णः स्तुतिः येषाम्' '"वर्ण स्तुतौ" इति धातोः कर्मणि घञ् । तेषाम् धीमताम्
धीमान् सूरिः कृती कृष्टि: लब्धवर्णो विचक्षणः' इत्यमरः । कर्णेषु
श्रवणेषु सुखमयीम् सुखाकाराम । तादूप्ये मयट् । चिन्मयमिति यथा ।
सुखैकरूपामिति यावत् । सुधाम, अमृतम् सूते सौति जनयति । भवभूते
र्वाणी विदुषामत्यन्तश्राव्या महान्तमानन्दं संवत्त इत्यर्थः । एतेन तद्वाचा
मतिगम्भीरत्वं तेन प्राकृतजनदुरवगाहत्वं च गम्यते । उक्तं च महावीर
चरिते कविना - "उत्पत्स्यते मम तु कोऽपि समानधर्मा कालोह्ययं निरवधि
विपुला च पृथ्वी" इति । षूञ् प्राणिगर्भविमोचने लट् । 'सौति सूते च जनय
त्युत्पादयति सूयते' इति क्रियानिघण्टुः । सा वाक् । कापि आश्चर्यभूता सर्व
धेनुभ्योऽपि विलक्षणा सुरभिः गौः यत इयं सर्वार्थप्रदानेन सौख्यामृतस्यन्दिनी
तत इयं कामधेनुरिति यावत् । आह्लादयतु नाम गौस्सुधासम्मितेन पयसा
सर्वानपि लोके तथापि विद्वज्जनानां श्रवणानन्दामृतानुभूतिसंधानं तु
नैतामन्तरा सम्भवतीत्यनन्यादृशी सेयं वाक्सुरभिरिति तात्पर्यार्थः । अथवा
कापि अपूर्वा गौ कामधेनुः । कामधेनोरप्यतिरिच्यते वागियमित्यर्थः ।
कामधेनुस्सा प्रार्थितैव सर्वानर्थान् प्रददाति वागियं तु "भद्रैषां लक्ष्मी
निहिताधिवाचि" इति निखिलार्थाननयथितैव श्रवणमात्रेण सन्धत्त इति
कामधेनुरपि सा नैव विद्वज्जनश्रवणामृतसन्धानमियमिव कर्तुम् प्रभवतीति
च सर्वधा ततोऽधिकेयमिति भावः । 'सुरभिर्गवि च स्त्रियाम्' इत्यमरः ।
सुरभिस्सल्लकीमातृभित्सुरगोषु योषिति' इति मेदिनी च । "एकश्शब्द
स्सम्यग् ज्ञातस्सुष्ठु प्रयुक्तस्स्वर्गे लोके कामधुग्भवति" इति श्रुत्या सौशब्द
मस्यां विशिष्टो गुण इति च ज्ञायते । 'इति' इति शेषः । गम्यमानार्थत्वा
दप्रयोगः । शङ्के इति सम्भावनायाम् । मन्ये नूनमित्यर्थः । अत्र वाचां
सुरभित्वेनोत्प्रेक्षणमिति स्वरूपोत्प्रेक्षेयम् । अत्र च निदानं 'शके' इत्यु
त्प्रेक्षावाचकस्य प्रयोगः। "मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दरिवशब्दोऽपि तादृशः ॥" इति दण्डी । 'सुखमयी
सुधाम्' इति रूपकं तत्प्रेक्षायामुपकरोतीत्यनयोरङ्गाङ्गिभावेन सङ्करः ।
 
"
 
16
 
(