This page has not been fully proofread.

मधुराविज़ये
 
सम्मितं वचो भारवेस्सपदि तद्विभज्यते । स्वादयन्तु रसगर्भनिर्भरं सारमस्य
रसिका यथेप्सितम्" इति । श्लेषानुप्राणितेयमुपमा । श्लेष एवायमिति
केचित् । केवलशब्दमात्रकृतसाधर्म्यस्य सहृदयहृदयाह्लादकत्वाभावात्
" उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः" इत्यत्र 'सादृश्यलक्ष्मीः' इत्यनेन
चमत्कारकारिसादृश्यस्यैव तत्प्रयोजकत्वाभ्युपगमादालङ्कारिकैः इति ॥
 
14
 
'जाते जगति वाल्मीकौ कविरित्यभिधाऽभवत् । कवी इति ततो व्यासे
कवयस्त्वयि दण्डिनि' इति प्रशंसाभाजनं कवितल्लजं दण्डिनं विशिष्य
नुवति
 
-
 
(
 
आचार्यदण्डिनो वाचा माचान्तामृतसंपदाम् ।
 
विकासो वेधसः पत्न्या विलासमणिदर्पणः ॥ ॥10॥
 
आचार्येति ॥ आचान्ता कवलिता स्वस्मिन्नैक्यं नीता अमृतसंपत्
सुधावैभवम् यासु तासाम् । अमृतमयीनामित्यर्थः । आङ्पूर्वाच्चमेः कर्मणि
क्तः । उदित्त्वेन क्त्वायां वेट्कत्वादिडभावः । 'अनुनासिकस्य विवज्झलो:'
इति दीर्घः । आचार्य : मन्त्रव्याख्याकृत् स इव उपचारात् शास्त्र
मन्त्रव्याख्याकृदाचार्य: इत्यमरः । चरेराङि ण्यत् ।
 
प्रवक्तापि ।
 
'गदमदयम' इति तु न । 'चरेराङि चागुरौ ' इति गुरौ प्रतिषेधात् ।
काव्यादर्शप्रणयनेन शास्त्रप्रवक्तायं समभवदित्याचार्य शब्दव्यवहारो युज्यते
ऽस्मिन् । स चासौदण्डी एतन्नामा कविः । तस्य वाचाम् वचसाम्
विकासः समुल्लासः विजृम्भणम् तद्वाग्विभूतिरिति यावत् । वेधसः ब्रह्मणः
पत्न्याः भार्यायाः सरस्वत्या इत्यर्थः । विलासाय तदर्थे मणिदर्पण: रत्नमय
आदर्श इति चतुर्थीसमासः । यद्वा विलासानां मणिदर्पण इति तादर्थ्य
षष्ठ्या अश्वघासादिवत्समासो वा । 'आदर्शो दर्पण: प्रोक्तः' इत्यमरः ।
पत्नीत्यत्र 'पत्थुर्नो यज्ञसंयोगे' इति नकारो ङीप् च । विलास प्रियतमीप
गमने यः स्थानासनगमनविलोकितेषु विकारोऽकस्माच्च क्रोधस्मित चम
त्कारमुख विक्लबनं स इति लक्षणाः । तादृशविलासावलोकनोपयोगीति
 
(
 
"