मधुराविजयम् /148
This page has not been fully proofread.
3]
प्रथमसर्गः
भावयन्ति इत्यस्य रचयन्ति इति वार्थः । बाणवत् रसवत्कृविताशिल्पपारगाः
केऽपि न भवन्तीति भावः । 'निमिमीते भावयति निर्माति रचयत्यपि ' इति
भट्टमल्लः । अत्र 'निक्वाणहारिणीम्' इत्युपमा । 'तस्य मुष्णाति' इत्या
दीनामुपमावाचकेषु दण्डिना परिगणनात् । 'अन्ये न भावयन्ति' इत्यनेन
' स एव भावयितुं शक्त: ' इति तासां सदृश्यस्ता एवेत्यनन्वयो ध्वन्यते ।
अतो वस्तुनाऽलङ्कारध्वनिरपि ॥
13
किरातार्जुनीयकर्तारं भारविनामानं कवि श्लाघमाना "भारवेरर्थ
गौरव' मिति यदुक्तमभियुक्तैः तद्विवृणीते
विमर्दव्यक्तसौरभ्या भारती भारवेः कवेः ।
धत्ते वकुलमालेव विदाधानां चमत्क्रियाम् ॥ ॥॥
विमर्देति ॥ भावे: तन्नाम्नः कवेः भारती वाक़् । कर्ती । वकुलस्य
पुष्पम् वकुल: 'पुष्पमूलेषु बहुल' मिति लुप् 'लुपि युक्तवद्वयक्तिवचने' इति
लिङ्गवचने यथाप्रकृति । तेषां माला सेव । विमर्दन परिमलेन अतिक्षोदेन
पुनःपुनश्चर्वणेन च । विपूर्वकात् मृदे: घञ् । व्यक्तम् आविष्कृतम् । सुरभिनो
भावः सौरभ्यम् । ' गुणवचनब्राह्मणादिभ्यः कर्मणि च ' इति ष्यञ् । तत्
यस्यां तथोक्ता । वाचामपि सौरभं सुप्रसिद्धं कवीनां वर्णनेषु । तादृशी
सती । विदग्धानाम् परिमलग्रहणे चतुराणाम् । अन्यत्र अन्तःप्रवेशेन
काव्यमर्मज्ञानां विदुषां च । चमत्क्रियाम् आह्लादम् धत्ते धारयति जनयती
त्यर्थ: । डुधाञ् धारणपोषणयोः । तस्माल्लिट् । अन्तर्भावितण्यर्थोऽन
धाञ् । ' दत्ते ' इति वा पाठः । दत्ते ददाति । डुदाञ् दाने - लट् । अत्र
ददातिर्भाक्तः । संप्रदानत्वाविवक्षायां 'रजकस्य वस्त्रं ददाति' इतिवत् शेषे
षष्ठी । विदग्धेभ्यश्चमत्क्रियामुत्पादयतीत्यादि पूर्ववत् । चमक्रियासार एव
काव्यमिति विश्वेश्वरभट्टारकः । अर्थगम्भीरा रसगर्भनिर्भरा भारविकविता
पुन: पुनश्चर्वणेन रसज्ञानामतीवाह्लादिकेति परमार्थः । अनेन नारिकेलपाको
ऽस्य कवितायां विशिष्यत इति ज्ञायते । उक्तं च मल्लिनाथेन "नारिकेलफल
।