मधुराविजयम् /147
This page has not been fully proofread.
मधुरा विजये
णेन कालिदासादिषु प्रभुत्वाद्यारोपणं गम्यत इत्येकदेशविवर्तिरूपक
मलङ्कारः ॥
12
अथ 'बाणोच्छिष्टं जगत्सर्वम्' इति प्रथितयशस्कं भट्टबाणं स्तौति
वाणीपाणिपरामृष्ट वीणानिक्वाणहारिणीम् ।
भावयन्ति कथं वान्ये भट्टबाणस्य भारतीम् ॥ 118 n
-
·
।
वाणीति ॥ अन्ये बाणादितरे कवयः । वाण्या : सरस्वत्याः पाणिः
हस्तः तेन परामृष्टा तन्त्रीषु संस्पृष्टा तद्ग्रहणेन नादिता वादितेति यावत् ।
या वीप्पा तस्याः निक्वाणः ध्वनिः तम् हर्तुम् अपहर्तुम् सर्वात्मना तमनु
कर्तुमित्यर्थः । तथाविधं शीलम् अस्या इति ताच्छील्ये णिनिः । ताम् ।
भट्टश्चसौ बाणश्च भट्टबाणः तन्नामा कविः । 'भट्ट ' इति विद्यावतां
ब्राह्मणानां बिरुदनाम । 'भट्टिनी द्विजभार्यायां नाट्योक्तया राजयोषिति'
इत्यमरः । एतद्व्याख्यावसरे सुधायां भट्टशब्दस्य द्विजवाचित्वं सूक्तम ।
भट्टशब्दस्य पूर्वनिपातस्तु ' देवदत्त ब्राह्मणः ब्राह्मणदेवदत्तः ' इतिवत् 'विशे
षणं विशेष्येण बहुलम्' इति सूते बहुलग्रहणादनियतः । स्पष्टं चेंदं सर्वं
महाभाष्योद्द्योतादिषु । अतएव 'भट्टनारायण: कुमारिलभट्टः भट्टगोपाल : '
इत्यादयस्संगच्छन्ते । तस्य भारतीं वाचम् रसाश्रयां गिरमित्यर्थः । 'ब्राह्मी
तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः । ताम् । कथम् केन प्रका
रेण वा भावयन्ति चिन्तयन्ति ध्यायन्ति स्वस्मिंस्तां प्रादुर्भावयन्ति इति
काकुः। कविलोके न केनाऽपि प्रकारेण तदन्ये तामधिगन्तुं प्रभवन्तीति भावः।
'भावयेज्ज्योतिरात्मनः' इत्यादौ यथावा भवतेरभूतप्रादुर्भावापरपर्यायध्या
नार्थकता दृष्टा तद्वदत्रापि । भुवोऽवकल्कने इति चुरादिण्यन्ताल्लट् ।
भू प्राप्तौ – इत्यस्मात्तु नेदं रूपम् । तस्यात्मनेपदित्वात् । समाहितचित्तै
रपि कविभिरेतादृशीयमिति ज्ञातुमेव न शक्यते बाणवाणी किमुताधिगन्तु
मिति तस्य प्रशस्तिः क्रियते । वाणीवीणानाद इव मृदुमधुर शब्दश्रवणयो
रमृतझरी: प्रवाहयन्ती निरुपमा विजेजीयते बाणस्य कवितेति निर्गुलितोऽर्थः ।