This page has not been fully proofread.

प्रथमसर्ग:
 
इति ताच्छील्ये णिनिः । पक्षान्तरे सः हृदयाह्लादी इति छेदः । हृदयाह्लादी
हृदयानन्दजनकः । सः प्रसिद्धः अनुभवैकवेद्य इति यावत् । सार: इक्षुपक्षे
रसः मधुरजलम् । पक्षान्तरे सारशब्द: लक्षितलक्षणया शृङ्गारादीन्
रसान् लक्षयति । 'सारो बले स्थिरांशे च मञ्जु पुंसि जले धने' इति
मेदिनी । सः हृदयाह्लादीति जतुकाष्ठवच्छन्दश्लेषः । अन्यत्रार्थश्लेषः ।
उभयोरपि सादृश्यसम्पादनमात्रचारितार्थ्यमित्यङ्गभूतोऽयमुपमयाऽङ्गि
भूतया सङ्कीर्यते ॥
 
इदानीं कविकुलतिलक: कालिदासः प्रस्तूयते
 
दासतां कालिदासस्य क़वयः के न बिभ्रति ।
इदानीमपि तस्यार्था नुपजीवन्त्यमी यतः ॥
 
11
 
,
 
n7 u
 
दासतामिति ॥ कवयन्ति वर्णयन्तीति कवयः काव्यकर्तारः के
केवा । काल्या' दासः कालिदासः ( ङयापोस्संज्ञाच्छन्दसोर्बहुलम्' इति
ह्रस्वः । काल्यनुग्रहाल्लब्धवाग्विभूतिरयमिति काचन कथाऽपि लोके श्रूयते ।
तस्य महाकवेः प्रभोरिति च गम्यते । दासताम् दास्यम् सेवकभावं तदुप
जीवित्वम् । तदुपगमितार्थप्राप्तिमत्त्वमिति यावत् । न बिभ्रति न दधिरे
इति काकुः । सर्वेऽपि तस्योपजीवका एवेति भावः । तत्र हेतुं दर्शयति । यतः
यस्मात् यत एवं तत इति पूर्वार्धन सम्बन्धः । अमी विप्रकृष्टदेशस्थाः
तस्य बहुकालान्तरिता इमे कवय इत्यर्थः । इदानीम, अद्यापि । बहुतिथे
काले गतेऽपीति यावत् । तस्य पूर्वमुक्तस्य महाकवेः स्वामिन इति च ।
अर्थान् अभिधेयानि शब्दार्थान् द्रव्याणीति च गम्यते । 'अर्थोऽभिधेयरैवस्तु
प्रयोजननिवृत्तिषु' इत्युभयत्राप्यमरः । उपजीवन्ति आश्रयन्ति । कालिदासी
यानर्थान, स्वकाव्येषु निक्षिप्य तेषां काव्यत्वं संपादयन्तीत्यर्थः । अतस्तदनु
सरणं कवीनामसाधारणं लक्षणमिति न तदनुकरणं दोषाय प्रत्युत गुणायैवेति
भावः । वेतनादेरादानादनुसृत्य जीवन्तीति च गम्यते । कवीनां सर्वेषामा
दर्शभूतः कविसम्राडयं कालिदास इति परमार्थः । अत्र कविषु दासत्वारोन