मधुराविजयम् /144
This page has not been fully proofread.
2]
प्रथमसर्गः
चेतस इति ॥ पृथिव्याम् भुवि भूलोके । पद्यानाम् छन्दोमयीनां
फणितीनाम् निर्माणम् निर्मितिः रचना सैव विद्या कविताविषयिणी कला
काव्यशिल्पमिति यावत् । तस्याः प्रथमम् आदिमम् पदम् स्थानम् । 'पदं
व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । आदिकविरिति यावत् ।
विद्यायाः सरस्वत्याः साहितीरूपायाः भूलोकमवतरन्त्याः प्रथमम् पदम्
मुख्यं स्थानम् । पादनिक्षेपणस्य आदिम आश्रय इति च । प्रचेतसः वरुणस्य
अपत्यं पुमान् प्राचेतसः 'प्रचेता वरुणः पाशी' इत्यमरः । तस्यापत्यमित्यण् ।
वाल्मीकिः वरुणपुत्र इति प्रसिद्धिः । मुनिः वाचंयमः मौनव्रती ' वाचंयमो
मुनिः' इत्यमरः । वाल्मीकिमर्षिरित्यर्थः । सताम् कवीनाम् ' सन् सुधीः
कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञस्संख्यावान् पण्डितः कविः' इत्यमरः ।
चेतसः मनसः ' चित्तं तु चेतो हृदयम्' इत्यमरः । प्रसाद प्रसत्तिः नैर्म
ल्यम् तस्मै तं विदधातुम् अस्तु भवतात् । चित्तनैर्मल्यं विदधात्वित्यर्थः ।
'क्रियार्थोपपदस्य च' इति चतुर्थी । अस्त्वित्यस्तेः प्रार्थनायां लोट् । क़ालुष्येऽ
पगते दर्पण इवावरणापगमे शुद्धं वस्त्वन्तःकरणे स्फुरति । शुद्धवस्तुस्वरूपाव
गतिश्च कवेरावश्यिकेति सा प्रार्थ्यते कवयित्र्या । अतएवाह वाग्भटः
"अधीत्य शास्त्राण्यभियोगयोगादभ्यासवश्यार्थपदप्रपञ्चः । तं तं विदित्वा
समयं कवीनां मनःप्रसत्तौ कवितां विदध्यात्॥" इति । अर्थोत्पत्तिहेतुप्रदर्शना
वसरे च स एव पुनराचख्यौ "मनःप्रसत्तिः प्रतिभा प्रातःकालोऽभियोगिता ।
अनेकशास्त्रदर्शित्वमित्यर्था लोकहेतवः ॥" इति । किञ्च प्रसादो नाम काव्य
गुणः । स चालङ्कारिकैरित्थमभिहितः "शुष्केन्धनाग्निवत् स्वच्छजलवत् सह
सैव यः । व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः । ॥" इति । एतद्विवरण
मपि तैरेव कृतम् " माधुर्यं स्वच्छशर्करा जलवत् यो गुणोऽन्यद्वयाप्यं चित्तं
झटित्येव रसेन व्याप्नोति स प्रसादः । अयं सर्वेषु रसेष्वायतया सर्वासु
रचनासु व्यङ्ग्यतया स्थितः" इति । तं विदधात्वित्यपि काचित्स्फूतिः। प्रसाद
शब्दोऽनुग्रह्परः तं कर्तुमस्त्वित्यर्थान्तरम् । आदिकाव्ये वाल्मीकीये रामा
यणे प्रसादगुणोऽस्तीति विशेषगुणाविष्करणमपि व्यङ्ग्यमर्यादया क्रियते ॥
.
0
-