मधुराविजयम् /143
This page has not been fully proofread.
मधुराविजये
-
S
े
तीति सर्वज्ञः । 'इगुपधे' त्यादिना कः । सर्वज्ञस्य भावः सार्वज्ञयम् । भावे
ष्यञ् । असाधारणं सार्वज्ञचं यस्य तम् । गुरुपक्षे इदम् । अन्यत्र असाधारणम
अनन्यलभ्यम्, अनितरदुर्लभम् ईश्वरसर्वज्ञत्वस्य अविद्यानाच्छादित्वादितरा
पेक्षया वैलक्षण्यम् । शेषं प्राग्वत् । विलसत्सर्वमङ्गलम् - विलसन्ति दीव्यन्ति
कान्तिमन्ति सर्वाणि मङ्गलानि शुभानि यस्य तम, सर्वश्रेयोनिदानमिति यावत्
गुरुपक्षे इदम् । इतरत्र विलसन्ती वामार्धे भासमाना सर्वमङ्गला पार्वती
यस्य तम् । 'शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला' इत्यमरः । अपरम्,
द्वितीयम् । गुरुपक्षे इदम् । अन्यत्र न विद्यते परः यस्मात्तम् अद्वितीय
मित्यर्थ: । त्रीणि लोचनानि यस्य तम् महेश्वरम् तमिव स्थितमित्यध्या
हारः । क्रियाशक्तिगुरुम् - क्रियाशक्तीशनामानमाचार्यम् 'क्रियाशक्तीश' इत्य
स्यैव क्रियाशक्तिरिति व्यवहारः । नामैकदेशे नामग्रहणमिति न्यायात् ।
वन्दे अभिवादये । वदि अभिवादनस्तुत्योः - लट् । श्लोकेऽस्मिन्नपरस्त्रि
लोचन इवेत्यपरशब्दस्य इवशब्दस्य च प्रयोगादलंकृतिरुत्प्रेक्षा ।
त्रिलोचनस्याप्रसिद्धत्वात् । प्रसिद्धसादृश्यवर्णनाभावान्नोपमा ।
यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः" इत्यनेन प्रसिद्धसादृश्यस्यैव तदुपजीवकत्वा
भ्युपगमादालङ्कारिकैः । अतएवाप्रसिद्धगुणक्रियाभिसंधानादप्रकृतत्वेन प्रकृत
संभावनमुत्प्रेक्षेति लक्षणज्ञा आलक्षयन् । अत्र अलङ्कारसर्वस्वकाराः
"अपरशब्देन प्रकृतस्थाप्रकृतत्वाव्यवसायप्रतीतेरिवशब्देन तस्य साध्यत्व
प्रतीतेरुत्प्रेक्षैव इति । अयमत्र विवेकः
अपरशब्दमात्रप्रयोगे अतिशयोक्तिः । उभयोः प्रयोगे तु उत्प्रेक्षा । श्लेषस्तू
इवशब्दमात्रप्रयोगे उपमा ।
त्प्रेक्षाबीजभूतसाधर्म्य मात्रनिर्वाहकत्वेन समुपक्षीणशक्तिकोऽभवदित्येतदङ्गम् ।
तस्मात्सङ्करः ॥
।
।
8
"
-
"(
अपर
उपमा
अथ वाल्मीक्यादिमहाकवींस्तत्तद्गुणविशेषनिर्देश पूर्वकं प्रशंसति
चेतसोऽस्तु प्रसादाय सतां प्राचेतसो मुनिः ।
पृथिव्यां पद्यनिर्माण विद्यायाः प्रथमं पदम् ॥
॥॥