मधुराविजयम् /142
This page has not been fully proofread.
7
प्रथमसर्गः
नियतं तिष्ठन्ती मणिपञ्जरेषु विहरन्ती शारिकेव तासामलङ्कारभुता
स्थितेति भावः । चेतनैव चैतन्यम् बुद्धिः । स्वार्थे प्यञ् । तदेव जलधि:
समुद्रः । 'रत्नाकरो जलनिधिर्यादः पतिरपांपतिः' इत्यमरः । जलानि धीयन्ते
ऽस्मिन् 'कर्मण्यधिकरणे च' इति किः । बुद्धेः जलधित्वारोपेण तत्तत्प्राणि
बुद्धीनां तासामनन्तत्वमुक्तं भवति । तस्य ज्योत्स्नाम् चन्द्रिकाम् । समुद्रस्य
ज्योत्स्नेव तत्तत्प्राणिबुद्धीनां विषयदर्शनेन समुल्लासजननीमिति भावः ।
सरस्वतीम् तन्नाम्नीम् देवीम् देवताम् वागधिष्ठानभूताम् । दिवु क्रीडा
विजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिस्वप्नगतिषु इति धातोरच् ।
ङीप् । किञ्च देवीम् द्योतनध्वननयोः पर्यायत्वेन ध्वनिरूपाम् उत्तमकाव्या
त्मकत्वात् ध्वनेः । तथा स्तुत्याम् वागात्मकतयाभिनन्द्याम् । अथवा देवीम्
मोदमानाम् आनन्दरूपाम् श्रवणत एव परमानन्दसंधायिनीम् यतो मोदरूपा
तत इयं मोदप्रदा स्वाश्रितानामिति च व्यज्यते । अथवा देवीम् कमनीयाम्
सर्वैरप्यभिलषणीयाम् इत्येवंप्रकारेण धात्वर्थानां सर्वेषामप्यत्र सङ्गतिर्ज्ञेया ।
वन्दे अभिवादये । वदि अभिवादनस्तुत्योः । तस्माल्लिट् । बुद्धीनां जलधित्व
रूपणेन देव्यां ज्योत्स्नत्वारोपेण च रूपकमलङ्कारः । पूर्ववत् मुखाम्भोज
मित्यनेन कविमुखानां शुचित्वं कोमलत्वं तेन च सरस्वत्याः नित्यनिवासश्च
सूच्यते । मुखाम्भोज़मणिपञ्जरमिति रूपकरूपकम् । अम्भोजैश्च मुखानि
रूप्यन्ते मणिपञ्जरैश्चाम्भोजानीति । यथाह दण्डी "मुखपञ्जररङ्गेऽस्मिन्
भ्रूलतानर्तकी तव । लीलानृत्यं क़रोतीति रम्यं रूपकरूपकम्" इति । 'मुखा
म्भोज़ानि' इत्युपमितसमासोऽप्यत्र सुवचः । विस्तरस्तु मदीयायामान्ध्र
व्याख्याभूमिकायां द्रष्टव्यः ॥
इत्थं देवताप्रार्थनां कृत्वा विजयनगरसा म्राज्यराजगुरुं स्तौति -
असाधारणसार्वज्ञचं विलसत्सर्वमङ्गलम् ।
क्रियाशक्तिगुरुं वन्दे त्रिलोचनमिवापरम् ॥
॥ 4 ॥
असाधारणेति ॥ असाधारणम् असदृशम, निरुपमम् । सर्वं जाना