मधुराविजयम् /141
This page has not been fully proofread.
मधुराविजये
प्रभिन्नाभिश्शम्भोर्नत्रभिरपि मूलप्रकृतिभिः" इति । तस्मादेव योनिशब्द
व्यवहार एतेषु (नवसु चक्रेषु ) सङ्गच्छते । नवयोनयो नवधात्वात्मकाः
इत्युच्यन्ते । तत्र केषांचिच्छक्तिमूलकत्वम् केषांचिच्छिवमूलकत्वम् ।
विशेषतः कामिकातन्त्रे एवमुक्तम् " त्वगसृङ्मांसमेदोऽस्थिधातवश्शक्ति
मूलकाः । मज्जाशुक्लप्राणजीवधातवश्शिवमूलकाः" इति । श्रीचक्रे शक्ति
चक्राणि पञ्च शिवचक्राणि चत्वारि । एवं शिवशक्त्यात्मक्रमेतदेव श्रीचक्र
मित्युक्तम् । मातृकाचक्रं च शिवचक्राङ्गम् । मातृका च वर्णात्मिका ।
अत्रागमः । "मातृकां वशिनीयुक्तां योगिनीभिस्समन्विताम् । गन्धाद्याकर्षिणी
युक्तां संस्मरेत्त्रिपुराम्बिकाम् ॥" इति । "वशिन्यादयश्शक्तयः पञ्चाशद्वर्णा
त्मिकाः" इतिच । अत्र मातृकाशब्देन श्रीचक्रमुपलक्षणविधया बोध्यते ।
तच्च स्रष्टुस्सृष्टेर्मूलप्रकृतिभूतमिति पूर्वमुक्तम् । तदेतत्सर्वं मनसि निक्षिप्य
"स्रष्टु स्त्रीपुंसनिर्माण" इत्याद्युक्तं कवयित्येति संक्षेपः । तौ कर्मभूतौ । प्रति
बोधाय ज्ञानार्थे प्रपद्ये सेवे । पद गतौ दिवादिः लट् । "शिवरूपाज् ज्ञान महं
त्वत्तो मुक्ति जनार्दनाकारात् । शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि "
इति स्मरणादैहिकामुष्मिकज्ञानं शिवरूपाद्वामार्धजानेरह मभिलषामीति
भावः ॥
6
स्वेष्टदेवतां नमस्कृत्य सर्वविद्यानामधिष्ठानदेवतां वाणीं स्तौति-
महाकविमुखाम्भोज मणिपञ्जरशारिकाम् ।
चैतन्यजलधिज्योत्स्नां देवीं वन्दे सरस्वतीम् ॥ ॥ ॥
महाक़वीति ॥ महान्तः पूज्याः कवयः महाकवयः 'सन्महत्परमोत्तमो
त्कृष्टाः पूज्यमानैः' इति समासः । तेषाम् मुखान्येव अम्भोजानि पद्मानि तान्येव
मणीनां पञ्जरम् । प्रकृतिविकृतिभावे षष्ठी । मयडर्थस्यान्यथा लाभे मयड
भावो न दोषाय । रत्नमयपक्षिबन्धनगेहानीत्यर्थः । जातावेकवचनम् । तत्र
शारिकाम् शृणाति दुःखं विरहिणामिति शारिका पक्षिभेदः कीरप्रिया ।
इऋ हिंसायाम् ण्वुल् । महाकविजिह्वास्थलीषु नरीनृत्यमाना सरस्वती तत्रैव