This page has not been fully proofread.

मधुराविज़ये
 
एतं श्लोकमारभ्य पञ्चविंशतिश्लोकः 'देवताप्रार्थना गुरुस्तुतिः कवि
प्रशंसा कुकविनिन्दा काव्यस्वरूपप्रयोजने' इत्याद्यनेकांशा अस्मिन् सर्गे
वर्णिताः । सर्गोऽयं देवतास्तुत्या समुपक्रान्तः परिसमाप्यते महाराजदम्पत्यो
स्सुखानुभूतिकथनेन ॥
 

 
अत्रभवती श्रोत्ॠणामध्येत्ऋणां च शुभाशिषं प्रयुज्यात्मार्थे स्वेष्टदेवता
प्रसादमाशासाना नमस्त्रियारूपमपि मङ्गलमाचरति -
 
स्रष्टुः स्त्रीपुंसनिर्माण मातृकारूपधारिणौ ।
प्रपद्ये प्रतिबोधाय चित्प्रकाशात्मकौ शिवौ ॥ ॥ ॥
 
स्रष्टुरिति ॥ स्रष्टुः सृष्टिकर्तुः अजस्य । स्त्री च पुमांश्च स्त्रीपुंसम् ।
'अचतुरविचतुर' इत्यदिना निपातनादच् । तस्य निर्माणम् सृष्टि: तस्मिन्
मातेव मातृका । " इवे प्रतिकृती" इति कन् । तथाभूतं रूपम् निदान
भूता आकृतिः तत् धर्तुम् शीलमनयोः तथोक्तौ । वृञ् धारणे । 'सुप्यजातौ
णिनिस्ताच्छील्ये' इति णिनिः । परमेश्वरी परा शक्तिर्ब्रह्मणः स्त्रीनिर्माणानु
गुणतया स्वीयामाकृतिमधात् । पुरुष निर्माणानुगुणतया परमेश्वरोऽप्येवमेवेति
भावः । अत्र मनुः। "द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी
तस्यां सा विराजमसृजत्प्रभुः ॥" इति । अतएव "
भिन्नमूर्तेस्सिसृक्षया । प्रसूतिभाजस्सर्गस्य तावेव पितरौ स्मृतौ" इत्याह
स्त्रीपुंसावात्मभागौ ते
महाकविः कालिदासः । मातृकाशब्दोऽत्र वर्णमालापरोऽपि । वर्णमाला च अर्थ
वच्छब्दजातमेवेति वागर्थावुच्येते । तस्या रूपम् आकारः तत् धर्तुम् शील
मनयोरिति तथोक्तौ । वागर्थरूपधारिणौ शिवावित्यप्यर्थान्तरम् । तथा चोक्तं
वायुपुराणे " शब्दजातमशेषं तु धत्ते शर्वस्य वल्लभा । अर्थरूपं यदखिलं
धत्ते मुग्धेन्दुशेखरः" इति । आम्नायरूपाविति भावः । धता यथापूर्वमकल्पयत्
इति वेदमुखेनैव सृष्टे: प्रवृत्तत्वात् सृष्टिकारणत्वं च तस्या उपपद्यते ।
अनेन यो यद्धत्ते स तंद्धत्ते इति न्यायेन शब्दार्थसिद्धिरप्येताभ्यामात्मनः
सूचिता । चित् प्रकाशश्च चित्प्रकाशौ । तौ आत्मानौ स्वरूपे ययोः तथोक्तौ ।