This page has not been fully proofread.

प्रथमसर्ग़:
 
पराधीनतां सम्भावयन्ती गणाधिपतिमेव स्वकाव्यमुखे स्तौति । उक्तं च
केनचित्कविवरेण–"यत्पादाम्बुरुहावलम्बशरणाः पूर्वे पुमांसस्त्रय । स्त्रैलोक्य
स्थितिसर्गसंहृतिविधौ निर्विघ्नसिद्धोद्यमाः" इति । आदौ कल्याणाय
सताम् भूयात् देवः दन्तावलाननः इति मङ्गलवाचिनां पदानां बहूनां
नैरन्तर्येण प्रयोगात्कल्याणप्राचुर्यं चात दर्शितम् । सुवर्णवाचिनः कल्याण
शब्दस्य प्रयोगात् सुवर्णजातं सतां ददात्वित्यर्थान्तरमपि । तेन लक्ष्मीगणपतित्व
मप्यस्य सूचितं भवति । 'लक्ष्मीकर: कवर्गस्स्यादिति काव्यादौ कवर्गप्रयोग
मङ्गलकरः । भूमिदैवतकस्य सर्वगुरोर्मगणस्य प्रयोगोऽतीव क्षेमङ्करः । 'मो
भूमिस्त्रिगुरुश्शुभं वितनुते' इति वचनात् । कल्याणादिपदानां भद्रादि
वाचकत्वाद्वर्णगणादिशुद्धेरभ्युच्चयस्सिद्धः । गजानने कल्पवृक्षत्वरूपणाद्रूपक
मलङ्कारः। 'कल्पकल्पनाकल्प' इति बहूनां वर्णानां पुनःपुनरावृत्तेर्वृत्त्यनु
प्रासो नाम शाब्दोऽलङ्कारः । "एकद्वित्र्यादिवर्णानां पुनरुक्तिर्भवेद्यदि ।
संख्यानियममुल्लङ्घ्य वृत्त्यनुप्रास ईरितः" इति साहित्यरत्नाकरे तल्लक्षण
मुक्तम् । अस्मिन् सर्गे वाल्मीक्यादीनां महाकवीनां पन्थानमनुगच्छन्ती
प्रथमतश्श्लोकाख्यमानुष्टुभमेव वृत्तमारचयदियं कवयित्री । तल्लक्षणं त्वेवम्
'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरुष्षष्ठं च सर्वेषामेतच्छ्लोकस्य
लक्षणम्' इति ।
 
'मनाक़्काव्यार्थसूचना' इति काव्यार्थोप्य सूच्यते । तथाहि-दन्तशब्देन
दन्तरुचयो लक्ष्यन्ते कार्यकारणयोरभेदोपचारात् । तथा च प्रशस्ता दन्ता
अस्येति दन्तावलशब्देन मन्दस्मितमुच्यते । तत् आनने यस्य सः दन्तावलाननः
मन्दस्मितवदनः । देवः प्रभुः कम्पराजः सतां कल्याणाय भूयात् तुरुष्कराज
वधेन देशक्षेमं सन्धाय शिष्टरक्षणं कुर्यादित्याशास्यते । एतेन दुष्टशिक्षण
शिष्टरक्षणे कारणजन्मनोऽवतारमूर्तेरवश्यम्भाविनी इति पुरतो वर्ण्यमानं
विष्णोर्मूर्त्यन्तरत्वं च कम्पराजस्य सूचितं भवति । 'शरणागतसङ्कल्पे'
त्याद्युत्तरार्धेन च, मधुरापुराधिदेवतायाः कम्पराजं प्रति शरणागतिः तन्मनो-
रथपूरणाय तुरुष्कराजवधः मधुराविजयश्च प्रस्तूयते ।
 
3