This page has been fully proofread once and needs a second look.

कल्याणाय सतां भूयाद् देवो दन्तावलाननः ।
शरणागतसङ्कल्प कल्पनाकल्पपादपः ॥ ॥ 1 ॥
 
कल्याणायेति ॥ शरणाय रक्षणाय आगताः प्राप्ताः शरणागताः
शरणार्थिन इति यावत् । 'शरणं गृहरक्षित्रोर्वधरक्षणयोरपि' इति मेदिनी ।
तेषां सङ्कल्पाः मनोरथाः । तेषां कल्पना परिपूर्णतासम्पादनम् परिपूरण<fix>-</fix>
मिति यावत् । पर्याप्तिवचनात् कृप्धातोर्ण्यन्तात् 'ण्यासश्रन्थो युच्' इति
युच् । 'कृपो रो लः' इति लः । तत्र कल्पपादपः कल्पवृक्षभूतः । कल्पवृक्ष
इव स्वाश्रितानामभीष्टप्रदायक इति भावः । पाद्पशब्दश्चात्र पादाभ्यं
पाति रक्षति' इति व्युत्पत्त्या पादसमाश्रयणमात्रतो देवस्यास्यानुग्राहकत्वं
स्फोरयन् परमकारुणिकत्वमस्य बोधयति । दन्तावलम् आननम् मुखम् यस्य
दन्तावलाननः । अत्र दन्तावलशब्देन दन्तावलाननमुच्यते । 'समुदाये
वर्तमनाश्शब्दा अवयवेष्वपि वर्तन्ते । तैलं भुक्तम्, घृतं भुक्तम् इति यथा'
इति महाभाष्यवचनात् । 'दन्ती दन्तावलो हस्ती' इत्यमरः । गजमुखमुख
इत्यर्थः । स एव देवः देवता सर्वलोकाराध्यत्वात् स्वामी वा गणनाधत्वात् ।
दीव्यति देवः सर्वदा प्रकाशनस्वभाव इति परब्रह्मात्मकत्वमस्य स्फुरति ।
तेन सर्वदेवात्मकतया सर्वसिद्धिप्रदत्वम् सर्वोत्कृष्टत्वं च ज्ञायते । सताम्
विदुषाम् साधुजनानां च । 'सन् सत्ये विदुषि श्रेष्ठे साधौ भवति च त्रिषु'
इत्युभयत्रापि नानार्थरत्नमाला | कल्याणाय मङ्गलाय मङ्गलं विदधातुम्
भूयात् भवतात् । मङ्गलं विदधात्वित्यर्थः । 'क्रियार्थोपपदस्य च कर्मणि
स्थानिनः' इति चतुर्थी । 'श्वश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्'
इत्यमरः । गजाननत्वं च विघ्नेश्वरस्य पुराणेषु प्रसिद्धम् । ब्रह्मवैवर्ते गजेश
खण्डे नवमाध्याये श्रीकृष्णस्यैव गजाननतवा जनिमुक्त्वा 'शनिदृष्ट्या
शिरश्छेदात् गजवक्त्रेण योजितः । गजाननशिशुस्तेन नियतिः केन वार्यते'
इत्युक्तम् । केचित्तु प्रणवात्मकत्वमस्य बोधयति गजाननत्वमित्यपि
वर्णयन्ति । यद्यपि कालिदासादयो महान्तः कवयः काव्यारम्भे स्वेष्टदेवता<fix>-</fix>
स्तास्तास्तुवन्ति । तथापीयं कवयित्री तासां सर्वासामपि विघ्ननिरासने