This page has been fully proofread once and needs a second look.

श्रीः
 
मधुराविजयम्
भावप्रकाशिकाख्यव्याख्यासमेतम्
 
प्रथमसर्गः
 
प्रत्यूहध्वान्तमार्ताण्ड मण्डलश्शुभमण्डलः ।
हेरम्बस्सर्वदालम्बो भूयात्सर्वार्थसिद्धये ॥
 
वागर्थविग्रहौ साक्षाज् शिरोधृतकलानिधी ।
शिवौ क्षेमंकरौ नौमि ज्ञानसंपत्समृद्धये ॥
 
शरणं तव वाणि संप्रपद्ये
चरणं संश्रितपारिजातभूजम् ।
करुणामृतसेचनैरपाङ्गैः
कुरु मे मातरभीप्सितार्थलाभम् ॥
 
समन्वयपथेनेह नातिसंक्षेपविस्तरम् ।
व्याख्यायतेऽखिलं भाववैशद्यं तु विशिष्यते ॥
 
भावप्रकाशिकव्याख्योत्तेजितोऽयं महामणिः |
मधुराविजयो नाम्ना बुधशीर्षेषु राजते ||
 
अथ तत्रभवती गङ्गादेवी नाम कवयित्री "करोति कीर्तिमर्थाय कल्पते
हन्ति दुष्कृतम् | उन्मीलयति चाह्लादं किं न सूते कवेः कृतिः ॥” इति वक्ष्य
माणदिशा काव्यस्य सर्वार्थसाधकतां पश्यन्ती, भर्तुरात्मनः कम्पराजस्य
चरितं मधुराविजयं नाम महाकाव्यं चिकीर्षन्ती, "आशीर्नमस्त्रियावस्तुनिर्देशो
वापि तन्मुखम्" इत्याचार्यदण्डिनस्सूक्तिमनुसरन्ती, शिष्टपरंपरागतमनूचान<fix>-</fix>
माचारं परिपालयन्ती, विरचयिष्यमाणस्य स्वनिबन्धनस्य निर्विघ्नपरि<fix>-</fix>
समाप्तिमाकाङ्क्षन्ती विघ्नेश्वरस्तवात्मकमाशीरूपं मङ्गलमन्तेवासिनामनुजि<fix>-</fix>
घृक्षया ग्रन्थतो निबध्नाति --