This page has not been fully proofread.

20
 
उपक्रमः
 
पितृदेवं मातृदेवीं नमस्कृत्य यथाविधि ।
 
मघुराविजयं नाम काव्यं व्याख्यातुमारभे ॥
 
मधुराविजयाभिख्या काव्यश्रीर्जयताच्चिरम् ।
बुक्कराज़स्नुषागङ्गादेवीसागरसंभवा ॥
 
ब्याख्या सेयं तस्या मधुरा भावप्रकाशिकाभिख्या ।
विज्ञानामृतदोग्ध्री काऽपि च सुरभिर्जयत्यवनौ ॥
 
यस्मिन् वास्तुविशारदास्समभवन् यस्मिस्तपोराशयो
ब्रह्माणस्समुदी युरन्ध्रजगति प्रख्यातविख्यातयः ।
तस्मिन् दुग्धपयोदधौ कृतजनिश्श्रीपोतुकुच्च्यन्वये
सुब्रह्मण्यकलानिधिर्मधुर वाक्कर्ताऽयमेतत्कृतेः ॥
 
.
 
क्व वा गङ्गादेव्या मधुरमधुरा भावसुभग्रा
 
गिरां गुम्फास्सद्यो रसिकजनताह्लादनचणाः ।
 
क्व वाऽयं मन्दात्मा श्रुतिनिचयलोकेष्व कुशल
स्तथाप्यस्तीत्येतां रचयति कृति वेङ्कटपतिः ॥
 
उत्सायं मात्सर्य महापिशाचं
दोषं गुणं वाऽपि विमृश्य बुद्धया ।
विद्वान् विजानातु परिश्रमं मे
विद्वज्जनामोदफला हि विद्या ।
 
॥॥
 
॥ 2 ॥
 
॥ ४ ॥
 
41
 
॥ 5 ॥
 
इति
व्याख्याता