This page has not been fully proofread.

पुत्त्रोऽभवत्तस्य मुनीन्द्रकल्प
इश्रीनार भट्टश्श्रुतपारदृश्वा ।
यं सिद्धवाचं प्रणिपत्य भक्त्या
ददुनूं पाला बहुधाऽग्रहारान् ॥
 
16
 
तस्याभवद्वेङ्कटसुब्बयाख्य
स्सुतो महान् ज्यौतिषपारदृश्वा ।
यस्यानुजौ बेङ्कटरायपाप
भट्टाभिधौ वास्तुविशारदौ तौ ॥
 
सती तु तस्याभवदुत्तमा स्त्री
 
पतिव्रता वेङ्कटसुब्बमाम्बा ।
तयोरजायन्त सुतास्त्रयोऽत्र
ज्येष्ठस्सुतो जानकिरामनामा ॥
 
द्वितीयपुत्त्रश्च तृतीयपुत्त्र
इश्रीवेङ्कटप्पश्चलपत्यभिख्यः ।
गतेऽग्रजे, तत्र तृतीयपुत्रे
संतानशून्ये खलु स द्वितीयः ॥
 
समूढवान् वेङ्कटसुव्बमाम्बां
 
गुणैरुपेतां प्रथितान्ववायाम् ।
श्रीकन्यकाम्बा जननी
 
तु यस्या
 
स्तातो नु सीतापदपूर्वरामः ॥
 
यस्यास्सगर्भ: क्षितिपालमौलि
नीराजिताङ्घ्रिस्स चिदम्बराख्यः ।
धर्मोत्तरस्सर्वमहांस्तपस्वी
 
भूलोकभूषायितकीर्तिमूर्तिः ॥
 
11 6 16
 
॥ 7 ॥
 
118 11
 
॥ ॥
 
11 10 16
 
॥ 11 ॥