This page has not been fully proofread.

(व्याख्यात) वंशावलिः
 
आसीन्मनीषी निगमागमानां
 
मूर्तिर्महानच्युतभट्टनामा ।
आस्थानवीथी विजयानगर्या
भाति स्म यस्याश्रयतस्सुधर्मा ॥
 
आश्रित्य यं मूलपुमांसमास्ते
कीर्त्या महत्या हरितस्य गोत्रम् ।
श्रीपोतुकुच्चीत्युपनामधाम
वाग्देवतासंनिधिभागजस्रम् ॥
 
यस्थानुजोऽभूद् गुरुभट्टनामा
बुद्धया गुरुर्ब्रह्मणि नित्यसक्तः ।
श्रीब्रह्मचर्याश्रमनैष्ठिकं यं
भीष्मं द्वितीयं मनुते स्म लोकः ॥
 
लोकान् पातुमवातरत्सुरगणैर्यस्मिन्नगस्त्येश्वरो
यस्मिस्तस्य सती परा निवसति श्रीराजराजेश्वरी ।
 
श्रीमन्मूलपुरीतिनाम भजते श्वश्रेयसानां सदा
मूलं सत्पुरमर्थवद्यदवनौ क्षेत्राधिराजप्रथम् ॥
 
तस्मिस्तपस्तप्तुमना: कुटुम्बी
समागमन्मूलपुरं जवेन ।
 
काले ग़ते स प्रवया विरागी
 
ब्रह्मण्यवर्थोऽच्युतभट्टनामा ॥
 
॥ 2 ॥
 
॥ 3 ॥
 
114 11
 
॥ 5 ॥