This page has not been fully proofread.

6
 
मुद्रापणं च ग्रन्थस्यैतस्य कथं स्यादिति पर्यालोचयम् । इतिकर्त
व्यतामूढचाहं समभवम् । भगवानेवान शरणमिति तमेव समशिश्रियम् ।
एतदन्तरे 'कविराजपब्लिकेषन्' अध्यक्षाइश्रीमन्तो माधवार्या महा
शया महोदारा ममैतद्वार्ता श्रुत्वा पत्रिकासमुपलब्धये ममावश्यकं
द्रविणं भूरि दत्त्वा महत्साहाय्यमाचरन् । ते महान्तस्सदा संस्मरणीया
ममेति निवेदये । कृतज्ञतावादांश्च समर्पये तेभ्यो विबुधकल्पकेभ्यः ।
एतेभ्यश्श्रीमद्भयो भगवान् वितरतु सर्वाणि श्रेयांसीति तमर्थयेऽहं
मुहुर्मुहुः ।
 
धर्मप्रभवश्श्रीमोचर्ल रामकोटीश्वरमहाशया अपि ममास्मिन्
द्रव्यसाहाय्यं कृत्वा मुद्रापणकार्यमविच्छिन्नं प्रावर्तयन्निति तेभ्योऽपि
मम धन्यवादा आशासनानि च ।
 
श्रीकन्नेगंटिरेड्डेम्ममहाशया महोदारास्तेनालिपत्तनशिरोमणयो मयि
कृतादराः अवश्यमत्र स्मरणीया मम ।
स्मरणीया मम । ते खलु मधुराविजयस्य
वचनकाव्यस्य मुद्रापणं कारयित्वा मम महान्तमुपकारमकुर्वन् । त
गतं द्रव्यं सर्वमत्र निक्षिप्य भूरिकार्यमिदं निरवर्तयमहमिति यदि तान्
न स्मरामि तदा कृतघ्नो भवामि अतोऽभिनन्दनानि महाशिषश्च
तेभ्यो मम ।
 
अत्र मुद्रापणप्रयत्नश्च महानयं कार्यभार । समुचिता यन्त्रशाला..
विलम्बनमन्तरा परिशुद्धतयैतन्मुद्रणं च कथं स्यादिति पर्याकुलोऽह
मभूवम् । तदर्थमान्ध्रभूमि सर्वां पर्याटिषम् । मद्रपुरीमप्यगममेतदर्थे ।
यदि मया तत्र स्थीयते कंचित्कालं तदैवैतद् घटत इति यन्त्रणांधि
कारिभिरभाणि । कलाशालायामध्य। पकस्य
घटत इत्येतन्मुद्रणे नितरां निराशोऽस्मि ।
अम तत्र निवासो न
 
एतस्मिन् समये कोल्लूरुपुरवासिनश्श्रीचेरुवु शिवरामशास्त्रिणो