This page has not been fully proofread.

कृतज्ञतानिवेदनम्
 
संस्कृत काव्यजगतीदं काव्यं कालिदासीयादिकाव्यवत्सर्वथा भह
त्पदमधिष्ठाय विजेजीयते । एतादृगिदमान्ध्रकवयित्र्याः काव्यं तत्र तत्र
शिथिलीभूय विनाशोन्मुखं विरलप्रचारं च संवृत्तमित्येतदुद्धरणाय
समकल्पयम् । एताद्वसंकल्पे च निदानं भगवच्चोदनैव न मम ।
एतत्प्रेरणयैव गङ्गादेवीयमान्ध्रव नितेत्यान्ध्रदेशीयव्याप्तिमेतस्याः प्रथमतो
मिलपात्रानुवादम्, प्रसन्नगम्भीरं महाहदमिदमिति सहृदयरञ्ज
न्याख्यामान्ध्रव्याख्यां च व्यरचयम् । महोदाराणामान्ध्रजनानां महतौ
दार्येण तं तां चाहमचिरकालादेव प्राकटयम् ।
 
तदनन्तरे काले कथं वास्य सार्वजनीना व्याप्तिर्भविष्यतीति
चिन्त्यमानेन मया तदर्थे व्यरचि व्याख्येयं सांस्कृती । लिखिताया
स्तावदेतस्याः प्रकटनाय दशसहस्राणापुपरि द्रव्यस्यावश्यकता समजति ।
भृतकाध्यापकवृत्त्या यथाकथमप्युदरपूरणं कुर्वतो मम दुस्साधमिदमिति
कृतमिदं सर्वं भस्मनि हुतमिति रात्रिंदिवं गम महती चिन्ता संजाता ।
एवं प्रयत्ननैष्फल्यमासीदिति ( संजात ) मनःपीडावारांनिधौ भृशमुन्म
ज्जतो निमज्जतश्च मम नौरिवास्मिन् समये केन्द्रप्रभुत्वविद्याशाखा
मात्यकृतसम्मानना (मुद्रापणाय किमपि द्रविणप्रदानमेतस्मै ) समुद्धा
रिका समभूत् । तदवलम्बनमेवैतद्ग्रन्थप्रकाशे महदालम्बनं ममाभूदित्ये
तादृशमहाकार्य करणे प्रवृत्तानां तेषां महाशयानां प्रथमतः कृतज्ञताभि
नन्दनानीमानि मम धन्यवादैस्साक्रम ।
 
एवमेतेषां हस्तावलम्बने समुपलब्धेऽपि शिष्टं द्रविणं कथंवा
मया समुपलम्भनीयमिति महती चिन्ता समभूत् । कालश्च निर्णीता
वधिकः प्रभुत्वेन ।
भुत्वेन । एतस्मिन् काले परिशिष्टद्रव्यस्य समुपार्जनं