This page has not been fully proofread.

कृतिसमर्पणम्
 
श्रीमंस्तिरुमलावास श्रीनिवास दयानिधे ।
 
पद्मावतीमुखाम्भोज मधुपानमधुव्रत ॥
 
गायन्ति नृत्यन्ति नदन्ति वान्ति
गन्धर्वसङ्का दिवि देवकन्याः ।
वाद्यानि माङ्गल्यभयानि वाता
स्सुगन्धिनश्शोभन एष क़ालः ॥
 
लक्ष्मीरियं सकलशास्त्रकलारहस्य
दुराविनिर्मथनलब्धजनिस्सुता मे ।
लक्ष्मीप्रिय प्रतिपदं कृतलक्षणाढ्या
भावप्रकाशमधुरा मधुराकृतीनाम् ॥
 
मौतिकैस्साधित पुण्यलान
 
आसन्न आसीत्त्वरतां रमेश ।
कल्याणवेदीमधिरोह नूत्न
वधूरियं त्वां प्रतिवीक्षतेऽद्य ॥
 
पादाविमौ सरसिजाक्ष कृताधिवासौ
श्रुत्यन्तसीमित सुकृतैर्मम गाङ्गतोयैः ।
प्रक्षालयामि भवदीय कटाक्ष सेकैः
 
प्रक्षालय त्वमपि भामर्कात्तिपङ्कम् ॥
 
॥ १॥
 
॥ २॥
 
॥५॥