2026-02-12 06:56:28 by ambuda-bot

This page has not been fully proofread.

१४
 
मालविकाग्निमित्रे
 
राजा - ( सत्रीडमशोकमभितः परिक्रामन् । )
 
नायं देव्या भाजनत्वं न नेयः
सत्काराणामीदृशानामशोकः ।
 
यः सावज्ञो माधवश्रीनियोगे
 
पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥
 
विदूषकः - 'भो, वीसद्धो भविअ तुमं जोवणवदिं इमं पेक्ख ।
 
देवी—कं ।
 
:- मोदि, तवणीआसोअस्स कुसुमसोहम् ।
 
विदूषकः-
 
( सर्व उपविशन्ति । )
 
राजा - (मालविकां विलोक्य । आत्मगतम् ।) कष्टः खलु संनिधि-
 
वियोगः ।
 
अहं रथाङ्गनामेव प्रिया सहचरीव मे ।
 
अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥ ९ ॥
(प्रविश्य ।)
 
कञ्चुकी – विजयतां देवः । देव, अमात्यो विज्ञापयति । विदर्भ-
विषयोपायने द्वे शिल्पकारिके मार्गपरिश्रमादलघुशरे इति पूर्व न
प्रवेशिते । संप्रति देवोपस्थानयोग्ये संवृत्ते । तदाज्ञां देवो दातुम-
र्हतीति ।
 
राजा - प्रवेशयते ।
 
कञ्चुकी – यदाज्ञापयति देवः । ( इति निष्क्रम्य ताभ्यां सह प्रविश्य ।)
 
इतो भवत्यौ ।
 
१. भोः, विस्रब्धो भूत्वा त्वं यौवनवतीभिमां पश्य ।
 
२. काम् ।
 
३. भवति, तपनीयाशोकस्य कुसुमशोभाम् ।
 
धितोऽसि ॥ नायं देव्या इत्यादि । स्पष्टोऽर्थः ॥ भोः, विस्रब्धो भूत्वा त्वं यौव-
नवतीमिमां पश्य ॥ काम् ॥ भवति, तपनीयाशोकस्य कुसुमशोभाम् ॥ अहं
रथाङ्गेत्यादि । स्पष्टोऽर्थः ॥ सखि मदनिके, अपूर्वमिमं राजकुलं प्रविशन्त्याः प्रसी-