2026-02-12 06:56:28 by ambuda-bot

This page has not been fully proofread.

पञ्चमोऽङ्कः ।
 
९३
 
'
 
तह वि मे हिअअं बिसिणीपत्तगदं विअ सलिलं वेवदि । अविभ
 
दक्खिणेदरं वि णअणं बहुसो फुरदि ।
 
विदूषकः - भो वअस्स, विवाहणेवच्छेण सविसेसं खु सोहदि
 
मालविआ ।
 
राजा - पश्याम्येनाम् । यैषा
अनतिलम्बिदुकूलनिवासिनी
बहुभिराभरणैः प्रतिभाति मे ।
उड्डुगणैरुदयोन्मुखचन्द्रिका
 
हतहिमैरिव चैत्रविभावरी ॥ ७ ॥
 
देवी (उपेय) जेदु अज्जउत्तो ।
 
विदूषकः - भोदी ।
 
परिव्राजिका - विजयतां देवः ।
 
राजा -- भगवति, अभिवादये ।
परिव्राजिका-अभिप्रेतसिद्धिरस्तु ।
 
देवी - ( सस्मितम् ।) अज्जउत्त, एस ते अहोहिं तरुणीजणसहा-
अस्स असोओ संकेदधरो कप्पिदो ।
 
विदूषकः - भो, आराहिओसि ।
 
१. भो वयस्य, विवाहनैपथ्येन सविशेषं खलु शोभते मालविका ।
२. जयत्वार्यपुत्रः ।
 
३. वर्धतां भवती ।
 
४. आर्यपुत्र, एष तेऽस्माभिस्तरुणीजन सहायस्याशोकः संकेतगृह
कल्पितः ।
 
५. भोः, आराधितोऽसि ।
 
रस्य । तथापि मे हृदयं बिसिनी पत्रगत मिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे
नयनं बहुशः स्फुरति ॥ भो वयस्य, विवाहनैपथ्येन सविशेषं खलु शोभते मालविका॥
अन तिलम्बीत्यादि । स्पष्टोऽर्थः ॥ जयत्वार्यपुत्रः ॥ वर्धतां भवती ॥ आर्य-
त्र, एष तेऽस्माभिस्तरुणीजन हितस्याशोकः संकेतगृहं कल्पितः ॥ भोः, आरा-