2026-02-12 06:56:29 by ambuda-bot
This page has not been fully proofread.
९२
मालविकाग्निमित्रे
राजा - यथाह भवान् ।
अग्रे विकीर्णकुरबक फलजालकभिद्यमानसहकारम् ।
परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥ ४ ॥
विदूषकः - ( परिक्रम्य ।) अहो, अअं सो दिण्णणेवच्छो विअ
कुसुमत्थवएहिं तवणीआसोओ । ओलोअदु भवं ।
राजा -स्थाने खलु प्रसवमन्थरोऽयमभूत् । यदिदानीमनन्यसा-
धारणीं शोभामुद्वहति । पश्य ।
सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् ।
निर्वृत्तदोहदेऽस्मिन्संक्रान्तानीव कुसुमानि ॥ ५ ॥
-
विदूषकः – तेह । भो, वीसद्धो होहि । अह्मेसु संणिहिदेसु वि-
धारिणी पासपरिवट्टिणिं मालविअं अणुमण्णेदि ।
राजा - ( सहर्षम् ।) सखे, पश्य ।
मामियमभ्युत्तिष्ठति देवी विनयादनुत्थिता प्रियया ।
विस्तृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥ ६ ॥
(ततः प्रविशति धारिणी मालविका परिव्राजिका विभवतश्च परिवारः । )
मालविका - (आत्मगतम् ) जाणामि णिमित्तं कोदुआलंकारस्स ।
१. अहो, अयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः । अव-
लोकयतु भवान् ।
२. तथा । भोः, विस्रब्धो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्व -
परिवर्तिनीं मालविकामनुमन्यते ।
३. जानामि निमित्तं कौतुकालंकारस्य । तथा मे हृदयं बिसिनीप-
न्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे नयनं बहुशः स्फुरति ।
विकीर्णकुरवकेत्यादि । स्पष्टोऽर्थः ॥ अहो, अयं स दत्तनेपथ्य इव कुसुमस्त -
कैस्तपनीयाशोकः । अवलोकयतु भवान् ॥ सर्वाशोकतरूणामित्यादि । स्पष्टो-
Sर्थः ॥ तथा भोः, विस्रधो भव । अस्मासु संनिहितेष्वपि धारिणी पार्श्वपरिवर्तिनी
मालविकामनुमन्यते ॥ मामियमिति । स्पष्टोऽर्थः ॥ जानामि निमित्तं कौतुकालंका-