2026-02-12 06:56:28 by ambuda-bot

This page has not been fully proofread.

पञ्चमोऽङ्कः ।
 
९१
 
1 भअवदि, जं तुमं पसाहणगवं वहसि तं दंसेहि मालविआए स-
रीरे विवाहणेवच्छं ति । ताए सविसेसालंकिदा मालविआ । ततहोदी
कदावि पूरए भवदोवि मणोरहं ।
 
राजा - सखे, मदपेक्षामनुप्राप्य अनया धारिण्या पूर्वाचरितैः
संभाव्यत एवैतत् ।
 
-
 
प्रतीहारी — (उपगम्य 1 ) जेद भट्टा । देवी विष्णावेदि । तवणी-
आसोअस्स कुसुमसमदंसणेण मह आरम्भो सफलो करीअदु चि ।
राजा - ननु तत्रैव तिष्ठति ।
 
-
 
अह इं । जहारहसंमाणसुहिअं अन्तेउरं विस-
 
जिअ मालविआपुरोएण अतणो परिक्षणेण सह देवं पडिवालेदि ।
राजा - (सहर्षं विलोक्य विदूषकम् ) जयसेने, गच्छाग्रतः ।
प्रतीहारी - दु एदु देवो । (इति परिक्रामति ।)
 
विदूषकः - ( विलोक्य) भो वअस्स, किंचि परिवुतजोवणो
विअ वसन्तो पमदवणे लक्खीअदि ।
 
१. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहद-
र्शनेन ममारम्भः सफलः क्रियतामिति ।
 
२. अथ किम् । यथार्हसंमानसुखितमन्तःपुरं विसृज्य मालविका पुरो-
गेणात्मनः परिजनेन सह देवं प्रतिपालयति ।
 
३. एत्वेतु देवः ।
 
४. भो वयस्य, किंचिलरिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते
 
कथमिवेति प्रश्ने । अत्र कार्यान्वेषणाद्विरोधो नाम संध्यङ्गमुक्तं भवति ॥ अद्य किल
देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसाधनगर्व वहसि, तद्दर्शय माल-
विकायाः शरीरे विवाहनेपथ्यमिति । तथा सविशेषालंकृता मालविका । तत्रभवती
धारिणी कदाचित्पूरयेद्भवतोऽपि मनोरथम् । अत्र कार्योपदर्शनात्पूर्व भाव इति संध्य-
मुक्तं भवति ॥ जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमसहदर्शनेन
समारम्भः सफलः क्रियतामिति ॥ अथ किम् । यथार्ह संमानसुखितमन्तःपुरमव-
रोधजनं विसृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति ॥
एत्वेतु देवः ॥ भो वयस्य, किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते ॥ अग्रे