2026-02-12 06:56:28 by ambuda-bot
This page has not been fully proofread.
९०.
द्वितीय:-
मालविका मिमित्रे
विरचितपदं वीरप्रीत्या सुरोपमसूरिभि-
चरितमुभयोर्मध्येकृत्य स्थितं क्रथकैशिकान् ।
तव हृतवतो दण्डानकैर्विदर्भ पतेः श्रियं
परिघगुरुभिर्दोर्भिर्विष्णोः प्रसह्य च रुक्मिणीम् ॥ २ ॥
प्रतीहारी — ऐसो जअससूइदप्पत्थाणो भट्टा इदो एव आअ-
च्छदि । अहं वि दाव इमस्स पमुहादो लोआदो ओसरिअ खम्भ-
न्तरिदा होमि । (इत्येकान्ते स्थिता ।)
1
राजा-
( प्रविश्य सवयस्यः । )
कान्तां विचिन्त्य सुलभेतरसंप्रयोगां
श्रुत्वा विदर्भपतिमानमितं बलैश्च ।
धाराभिरात इवाभिहतं सरोजं
-
दुःखायते मम मनः सुखमश्नुते च ॥ ३ ॥
विदूषकः — जैह अहं पेक्खामि । एक्कन्तसुहिदो भवं हविस्सदि ।
राजा — कथमिव ।
विदूषकः - अज्ज किल देवीए एवं पण्डितकौशिकी भणिदा ।
१. एष जयशब्दसूचित स्थानो भर्तेत एवागच्छति । अहमपि ताव-
दस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ।
२. यथाहं पश्यामि । एकान्त सुखितो भवान्भविष्यति ।
३. अद्य किल देव्यैवं पण्डितकौशिकी भणिता । भगवति, यत्त्वं प्रसा-
धनगर्व वहसि, तद्दर्शय मालविकायाः शरीरे विवाह नैपथ्यमिति । तया
सविशेषालंकृता मालविका । तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् ।
कृत्य । आक्रम्येत्यर्थः । 'मध्ये पदे निवचने च' इति गति संज्ञा । 'कुगतिप्रादयः' इति
समासः । 'समासे नञ्पूर्वे क्त्वो ल्यप्' । शेषं स्पष्टम् ॥ एष जयशब्द सूचितप्रस्थानो
भर्तेत एवागच्छति । अहमपि तावदस्य प्रमुखाल्लोकादपसृत्य स्तम्भान्तरिता भवामि ॥
कान्तां विचिन्त्येत्यादि । सुलभेतरसंप्रयोगाम सुलभ समागमाम् । दुःखायते
'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यच् । अत्र मालविकारूपबीजानुसंधानात्संघिर्ना-
म निर्वहणसंध्यङ्गमुक्तं भवति ॥ यथाहं पश्यामि । एकान्तसुखितो भवान्भविष्यति ॥