2026-02-12 06:56:19 by ambuda-bot

This page has not been fully proofread.

चतुर्थोऽङ्कः।
 
८५
 
विदूषकः - मोदि, अदि णीदिगदं एक्कवि अक्खरं पढेअं, णं
 
म अत्तभवं पेसिदो हवे ।
 
राजा - ( आत्मगतम् । कथं नु खल्वस्मात्संकटादात्मानं मो-
चयिष्यामि ।
 
( प्रविश्य ।)
 
जयसेना — देवें, कुमारी वसुलच्छी कन्दुअं अणुधावन्ती पि-
ङ्गलवाणरेण बलिअं तासिदा अङ्कणिसण्णा देवीए पवादकिसलअं
विअ वेवमाणा ण किंवि पकिदि पडिवज्जइ ।
 
राजा - कष्टम् । कातरो बालभावः ।
 
इरावती - ( सावेगम् ।) तुवरदु अज्जउत्तो णं समासासिदुं । मा
से संतासजणिदो विआरो वढदु ।
 
राजा - अयमेनां संज्ञापयामि । ( इति सत्वरं परिक्रामति ।)
विदूषकः - साहु रे पिङ्गलवाणर, साहु । परिवादो तुए स-
पक्खो ।
 
(निष्क्रान्तौ राजा विदूषकश्च । इरावती निपुणिका प्रतीहारी च ।)
 
१. भवति, यदि नीतिगतमेकमप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रे-
षितो भवेत् ।
 
२. देव, कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलवत्रा-
सिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना न किंचित्प्रकृतिं
प्रतिपद्यते ।
 
३. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितो
विकारो वर्धताम् ।
 
४. साधु रे पिङ्गलवानर, साधु । परित्रातस्त्वया स्वपक्षः ।
 
नप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रेषितो भवेत् ॥ देव, कुमारी वसुलक्ष्मीः कन्दु-
कमनुधावन्ती पिङ्गलवानरेण बलवत्रासिताङ्कनिषण्णा देव्याः प्रवात किसलयमिव
वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते ॥ त्वरतामार्यपुत्र एनां समाश्वासयितुम् ।
मास्याः संत्रासजनितो विकारो वर्धताम् ॥ साधु रे पिङ्गलवानर, साधु । परित्रात-
 
माल० ८