2026-02-12 06:56:18 by ambuda-bot

This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
८३
 
बकुलावलिका — पसीददु भट्टिणी । किं णु खु दद्दुरा वा-
हरन्ति त्ति देवी पुढवीए देवो वरिसिदुं विरमदि ।
 
विदूषकः— मा दाव । भोदीए दंसणमेत्तेण अत्तभवं पणिवा -
दलणं विसुमरिदो । तुमं उण अज्जवि पसादं ण गेण्हसि ।
इरावती - कुविदा दाणिं अहं किं करिस्सं ।
 
राजा - अस्थाने कोप इत्यनुपपन्नं त्वयि । तथा हि ।
कदा मुखं वरतनु कारणाहते
 
तवागतं क्षणमपि कोपपात्रताम् ।
 
अपर्वणि ग्रहकलुषेन्दुमण्डला
 
विभावरी कथय कथं भविष्यति ॥ १६ ॥
 
इरावती - अट्टाति सुष्ठु वाहरिदं अज्जउत्तेण । अण्णसंकन्ते सु
अह्माणं भाअहेएसु जदि उण कुप्पेअं, तदो हस्सा भवेअं ।
 
1
 
राजा - त्वमन्यथा कल्पयसि । अहं पुनः सत्यमेव कोपस्थानं
न पश्यामि ।
 
१. प्रसीदतु भट्टिनी । किं नु खलु दर्दुरा व्याहरन्ती देव्या पृथिव्यां
देवो वषितुं विरमति ।
 
२. मा तावत् । भवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः ।
त्वं पुनरद्यापि न गृह्णासि ।
 
३. कुपितेदानीमहं किं करिष्यामि ।
 
४. अस्थान इति सुष्ठु व्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भाग-
धेयेषु यदि पुनः कुप्येयम्, ततो हास्या भवेयम् ।
 
पया संपूर्णा ते प्रतिज्ञा ॥ प्रसीदतु भट्टिनी । किं नु खलु दर्दुरा व्याहरन्त्या-
क्रोशन्तीति देव्यां पृथिव्यां देवो वर्षितुं विरमति ॥ मा तावत् । भवत्या दर्शन-
मात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः । त्वं पुनरद्यापि प्रसादं न गृह्णाति ॥
कुपितेदानीमहं किं करिष्यामि ॥ कदेति । स्पष्टोऽर्थः ॥ अस्थान इति सुष्ठु
त्र्याहृतमार्यपुत्रेण । अन्यसंक्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कुप्येयम्, ततो