2026-02-12 06:56:18 by ambuda-bot

This page has not been fully proofread.

८२
 
मालविकाग्निमित्रे
 
मालविका — ( अनुसृत्य ।) भेट्टा, मा दाव सहसा णिक्कम । स-
प्पोत्ति भणीअदि ।
 
इरावती - हेद्धि हद्धि । भट्टा इदो एब धावदि ।
 
विदूषकः - ( सप्रहासम् । ) कैहं दण्डकट्ठे एदं । अहं उण
जाणे जं मए केदई कण्टएहिं डंसं करिअ सप्पस्स उवरि अ-
असो किदं, तं मे फलिदं ।
 
(प्रविश्य पटाक्षेपेण । )
 
बकुलावलिका — दाव भट्टा पविसदु । कुडिलाई सप्पो
विदीसदि ।
 
इरावती - (स्तम्भान्तरिता राजानमुपेत्य ।) अवि णिविग्घमणो रहो
दिवासंकेदो मिहुणस्स ।
 
( सर्वे इरावर्ती दृष्ट्वा संभ्रान्ताः । )
 
राजा - प्रिये, अपूर्वोऽयमुपचारः ।
 
इरावती — उलावलिए, दिट्ठआ दुच्चाहिआअविसआ सं-
 
पुणा देवइण्णा ।
 
१. भर्तः, मा तावत्सहसा निष्क्राम । सर्प इति भण्यते ।
 
२. हा धिक् हा धिक् । भर्ता इत एव धावति ।
 
३. कथं दण्डकाष्ठमेतत् । अहं पुनर्जीने यन्मया केतकी कण्टकै देश
 
कृत्वा सर्पस्योपर्ययशः कृतम्, तन्मे फलितम् ।
 
४. मा तावद्भर्ता प्रविशतु । कुटिलगतिः सर्प इव दृश्यते ।
 
५. अपि निर्विघ्नमनोरथो दिवासंकेतो मिथुनस्य ।
 
६. बकुलावलिके, दिष्टया दूत्याधिकारविषया संपूर्णा ते प्रतिज्ञा ।
 
अत्रोद्वेजनाद्युक्तिर्नाम संध्यङ्गमुक्तं भवति ॥भर्तः, मा तावत्सहसा निष्क्राम । सर्प
इति भण्यते ॥ हा धिक् हा धिक् । भर्ता इत एव धावति ॥ कथं दण्डकाष्ठमेतत् ।
अहं पुनर्जाने । यन्मया केतकी कण्टकैर्देशं कृत्वा सर्पस्योपर्ययशः कृतम्, तन्मे
फलितम् ॥ मा तावद्भर्ता प्रविशतु । इह कुटिलगतिः सर्प इव दृश्यते ॥ अपि
निर्विघ्नमनोरथो दिवासंकेतो मिथुनस्य ॥ बकुलावलिके, दिष्ट्या दूत्याधिकारवि-