2026-02-12 06:56:17 by ambuda-bot

This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
७९
 
इरावती - ते हि तहिं एव गच्छामो । संसआदो मुत्तं पिअ -
वअस्सं पुच्छिदुं च ।
 
निपुणिका – सावसेसं विअ भट्टिणीए वअणं ।
इरावती - अण्णं च चित्तगदं अज्जउत्तं पसादेदं ।
निपुणिका – अह कहं दाणिं एव ण पसादीअदि ।
 
"
 
इरावती - मुंढे, जारिसो चित्तगदो णं तारिखो एव अण्णसं-
कन्तहिअओ अज्जउत्तो । केवलं उअआरादिकमं पमज्जिदुं अअं
आरम्भो ।
 
1
 
निपुणिका – दो इदो भट्टिणी ।
 
( उभे परिक्रामतः । )
 
( प्रविश्य । )
 
चेटी - जेदु भट्टिणी । देवी भणादि । ण मे मच्छरस्स एसो
कालो । तेण खु बहुमाणं बड्डेदुं वअस्साए सह णिअलबन्धणे किदा
 
1
 
१. तेन हि तत्रैव गच्छामः संशयान्मुक्तं प्रियवयखं प्रष्टुं च ।
 
२. सावशेषमिव भट्टिन्या वचनम् ।
 
३. अन्यच्च चित्रगतमार्यपुत्रं प्रसादयितुम् ।
 
४. अथ कथमिदानीमेव न प्रसाद्यते ।
 
५. मुग्धे, यादृशश्चित्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः ।
केबलमुपचारातिक्रमं प्रमार्जितुमयमारम्भः ।
 
६. इत इतो भट्टिनी ।
 
७.
 
जयतु भट्टिनी । देवी भगति । न मे मत्सरस्यैष काल : । तेन
खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धनं कृता मालविका ।
यद्यनुमन्यस आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि । यत्तवेष्टं तन्मे भणेति ।
 
यावन्मुक्तं प्रियवयस्य प्रष्टुं च ॥ सावशेषमिव भट्टिन्या वचनम् ॥ अन्यच्च चित्र-
गतमार्यपुत्रं प्रसादयितुम् ॥ अथ कथमिदानीमेव न प्रसाद्यते ॥ मुग्धे, यादृश-
श्चित्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमं प्रमा-
जिंतुमयमारम्भः ॥ इत इतो भट्टिनी ॥ जयतु भट्टिनी । देवी भणति । न मे
मत्सरस्यैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धनं