2026-02-12 06:56:15 by ambuda-bot
This page has not been fully proofread.
७८
मालविकामिमित्रे
राजा - अयि न भेतव्यम् ।
मालविका — (सोपालम्भम् । ) जो ण भाअदि, सो मए भट्टिणी -
दसणे दिवसामत्थो भट्टा ।
राजा-
दाक्षिण्यं नाम बिम्बोष्ठ वैम्बिकानां कुलव्रतम् ।
तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥
तदनुगृह्यतां चिरानुरक्तोऽयं जनः । ( इति संश्लेषमुपजनयति ।)
( मालविका परिहरति । )
राजा - ( आत्मगतम् । ) रमणीयः खलु नवाङ्गनानां मदन विष-
यावतारः । तथा हि ।
हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः
स्वौ हस्तौ नयति स्तनावरणतामालिन्यमाना बलात् ।
पातुं पक्ष्मल नेत्रमुन्नमयतः साचीकरोत्याननं
व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १५ ॥
(ततः प्रविशतीरावती निपुणिका च । )
इरावती - हे णिउणिए, सच्चं तुमं परिगदत्था चन्द्रिआए ।
समुद्दघर अलिन्दसइदो एआई अज्जगोदमो दिठ्ठोत्ति ।
निपुणिका – अण्गहा कहं भट्टिणी विणावेमि ।
१. यो न बिभेति, स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ।
२. हजे निपुणिके, सत्यं त्वं परिगतार्थी चन्द्रिकया । समुद्रगृहालिन्द-
शयित एकाकी आर्यगौतमो दृष्ट इति ।
३. अन्यथा कथं भट्टिन्यै विज्ञापयामि ।
स्पष्टोऽर्थः ॥ देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि ॥ योन बिभेति,
स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ॥ दाक्षिण्यमिति । स्वष्टोऽर्थः
वैम्बिकास्तद्वंश्या राजानः ॥ हस्तमित्यादि । सष्टोऽर्थः ॥ हजे निपुणिके
सत्यं त्वं परिगतार्था चन्द्रिकया । समुद्रगृहालिन्दशयित एकाकी आर्यगौतम
दृष्ट इति ॥ अन्यथा कथं भट्टिन्यै विज्ञापयामि ॥ तेन हि तत्रैव गच्छामः । संश