2026-02-12 06:56:15 by ambuda-bot

This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
बकुलावलिका तह । ( इति प्रस्थिता ।)
 
७७
 
राजा - वयस्य, एवमेवास्मिन्रक्षणक्षणेऽवहितेन त्वया भवि -
 
तव्यम् ।
 
विदूषकः- एवं वि गोदमी संदिसे अदि ।
 
-
 
बकुलावलिका – (परिक्रम्य ।) अज्ज गोदम, अहं अप्पअसे
चिट्ठामि । तुमं दुवाररक्खओ होहि ।
 
विदूषकः — जुज्जइ ।
 
-
 
(निष्क्रान्ता बकुलावलिका । )
 
विदूषकः - इमं दाव फलिहक्खम्भं अस्सिदो होमि । ( इति तथा-
कृत्वा । ) अहो सुहप्फरिसदा सिलाविसेसस्स । ( इति निद्रायते । )
 
राजा-
 
( मालविका ससाध्वसा तिष्ठति ।)
 
विसृज सुन्दरि संगमसाध्वसं
 
तव चिरात्प्रभृति प्रणयोन्मुखे ।
 
परिगृहाण गते सहकारतां
 
त्वमतिमुक्तलताचरितं मयि ॥ १३ ॥
 
मालविका — देवी भएण अत्तणोवि पिअं कादं ण पारेमि ।
 
१. तथा ।
 
२. एवमपि गौतमः संदिश्यते ।
 
३. आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ।
४. युज्यते ।
 
५. इमं तावत्स्फटिकस्तम्भमाश्रितो भवामि । अहो सुखस्पर्शता शि-
लाविशेषस्य ।
 
६. देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि ।
 
हरिणः । निवारयाम एनम् ॥ तथा ॥ एवमपि गौतमः संदिश्यते ॥ आर्य गौतम,
अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ॥ युज्यते ॥ इमं तावत्स्फटिकस्त-
म्भमाश्रितो भवामि । अहो सुखस्पर्शता शिलाविशेषस्य ॥ विसृजेत्यादि ।
 
1