2026-02-12 06:56:15 by ambuda-bot

This page has not been fully proofread.

७६
 
मालविकाग्निमित्रे
 
पथि नयनयोः स्थित्वा स्थित्वा तिरोभवति क्षणा-
 
त्सरति सहसा बाहोर्मध्यं गतापि सखी तव ।
मनसिजरुजा क्लिश्यत्येवं समागममायया
 
कथमिव सखे विस्रब्धं स्यादिमां प्रति मे मनः ॥ ११ ॥
बकुलावलिका - सहि, बहुसो किल भट्टा विप्पलद्धो । दाव
तुए अता विस्सासणिज्जो करीअदु ।
 
मालविका — सेहि, मह उण मन्दभभगाए सिविणसमाअमो
वि भट्टिणो दुल्लहो आसि ।
 
बकुलावलिका - भट्टा कहेदु से उत्तरं ।
 
राजा-
 
उत्तरेण किमात्मैव पञ्चवाणाभिसाक्षिकम् ।
 
तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १२ ॥
बकुलावलिका - अणुग हीदम्ह ।
 
विदूषकः - ( परिक्रम्य 1 ) बेहुलावलिए, एसो बालासोअरुक्खस्स
पल्लवाई लङ्घदि हरिणो । णिवारेम णं ।
 
१. सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा विश्वसनीयः
क्रियताम् ।
 
२. सखि, मम पुनर्मन्दभाग्यायाः स्वमसमागमोऽपि भर्तुर्दुर्लभ आसीत् ।
३. भर्ता कथयत्वस्या उत्तरम् ।
 
४. अनुगृहीताः स्मः ।
 
५. बकुलावलिके, एप बालाशोकवृक्षस्य पलवानि लयति हरिणः ।
निवारयाम एनम् ।
 
भवत्यामयं तवाविश्वासः । अस्मिन्वाक्ये काकुरनुसंधेया ॥ पथि नयनयोरि
त्यादि । स्पष्टोऽर्थः ॥ सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा
विश्वसनीयः क्रियताम् ॥ सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तु
दुर्लभ आसीत् ॥ भर्ता कथयत्वस्या उत्तरम् ॥ उत्तरेणेत्यादि । स्पष्टोऽर्थः ।
अनुगृहीताः स्मः ॥ बकुलावलिके, एष बालाशोकवृक्षस्य पल्लवानि लयति