2026-02-12 06:56:15 by ambuda-bot

This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
विदूषकः - अणुणअसज्जो दाणिं होहि ।
 
७५
 
मालविका - अज्जगोदमो एत्थे ण संसेवदि । ( पुनः स्थानान्तरामि-
 
मुखी भवितुमिच्छति ।)
 
बकुलावलिका—(मालविकां रुद्धा 1) खु कुविदा दाणि तुमं ।
मालविका - जैइ चिरं कुविदं एव मं मण्णेसि, एसो पच्चा-
 
णीअदि कोवो ।
 
राजा - ( उपेल ।)
 
कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेतन्मे ।
ननु तव साक्षादयमहमनन्यसाधारणो दासः ॥ १० ॥
बकुलावलिका — जेदु भट्टा ।
 
मालविका – (आत्मगतम् ।) कहं चित्तगदो भट्टा मए असुइदो ।
(इति सप्रणयवदनमञ्जलिं करोति । )
 
(राजा मदनकातर्यं रूपयति ।)
 
विदूषकः - किं भवं उदासीनो विअ ।
राजा - अविश्वसनीयत्वात्सख्यास्तव ।
विदूषकः -- अतहोदीए अअं तुह अविस्सासो ।
 
राजा - श्रूयताम् ।
 
२. अनुनयसज्ज इदानीं भव ।
 
२. आर्य गौतमोऽत्र न संसेवते ।
 
३. न खलु कुपितेदानीं त्वम् ।
 
४. यदि चिरं कुपितामेव मां मन्यसे, एप प्रत्यानीयते कोपः ।
 
५. जयतु भर्ता ।
 
६. कथं चित्रगतो भर्ता मयासूयितः ।
 
७. किं भवानुदासीन इव ।
 
८. अत्रभवत्यामयं तवाविश्वासः
 
आर्य गौतमोऽत्र न संसेवते ॥ न खलु कुपितेदानीं त्वम् ॥ यदि चिरं कुपितामेव
मां मन्यसे, एष प्रत्यानीयते कोपः ॥ कुप्यसीत्यादि । स्पष्टोऽर्थः ॥ जयतु
भर्ता ॥ कथं चित्रगतो भर्ता मयासूयितः ॥ किं भवानुदासीन इव ॥ अत्र