2026-02-12 06:56:15 by ambuda-bot
This page has not been fully proofread.
७४
मालविकाग्निमित्रे
न च प्रियेष्वायतलोचनानां
समप्रवृत्तीनि विलोचनानि ॥ ८ ॥
9
मालविका - हला, का एसा पासपरिउत्तवअणेण भट्टिणा
सिणिद्धाए दिट्ठीए णिज्झाईअदि ।
बकुलावलिका - इअं पासगदा इरावदी ।
मालविका - सहि, अदक्खिणो विअ भट्टा मे पडिभादि ।
जो सवं देवीजणं उज्झि एक्काए मुहे बद्धलक्खो ।
बकुलावलिका – (आत्मगतम् ) चिंत्तगदं भट्टारं परमत्थदो सं-
कप्पि असूअदि । होदु । क्रीडिस्सं दाव एदाए । ( प्रकाशम् ।)
हला, भट्टिणो वल्लहा एसा ।
मालविका - दो किं दाणिं अत्ताणं आआसइस्सं । ( इति सा-
सूयं परावर्तते । )
राजा - सखे, पश्य ।
भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं
सासूयमाननमितः परिवर्तयन्त्या ।
कान्तापराध कुपितेष्वनया विनेतुः
संदर्शितेव ललिताभिनयस्य शिक्षा ॥ ९ ॥
१. सखि, कैपा पार्श्वपरिवृत्तवदनेन भर्त्रा में स्निग्धया दृष्ट्या निध्यायते ।
२. नन्वियं पार्श्वगतेरावती ।
३. सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्वे देवीजन मुज्झित्-
कस्या मुखे बद्धलक्ष्यः ।
४. चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति । भवतु । क्रीडिष्यामि
तावदेतया । सखि, भर्तुर्वल भैषा ।
५. ततः किमिदानीमात्मानमायासयिष्यामि ।
'सखि, कैषा पार्श्वपरिवृत्तवदनेन भर्त्रा स्निग्धया दृष्ट्या निध्यायते ॥ नन्वियं
पार्श्वगतेरावती ॥ सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्व देवी जन-
मुज्झित्वैकस्य मुखे बद्धलक्ष्यः ॥ चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति ।
भवतु क्रीडिष्यामि तावदेतया । सखि, भर्तुर्वल्लभैषा ॥ ततः किमिदानीमात्मान-
मायासयिष्यामि ॥ भ्रूभङ्गेत्यादि । स्पष्टोऽर्थः ॥ अनुनयसज्ज इदानीं भव ॥