2026-02-12 06:56:15 by ambuda-bot

This page has not been fully proofread.

मालविका
 
चतुर्थोऽङ्कः ।
 
७३
 
मो दे ।
 
राजा - शते मे प्रतिकृतिं निर्दिशति ।
 
मालविका - ( सहर्षम् । द्वारमवलोक्य 1 ) हेला, मं त्रिप्पलम्भेसि ।
राजा - हर्षविषादाभ्यामत्रभवत्याः प्रीतोऽस्मि ।
 
सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य ।
वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥
बकुलावलिका — णं एसो चित्तगदो भट्टा ।
उभे - ( प्रणिपत्य ।) जेदु भट्टा ।
 
मालविका - हैला, तदा संभमदिट्ठे भट्टिणो रूवे जहा ण वि -
तिहलि, तहा अज्जवि मए भाविदो अवितिहदंसणो भट्टा ।
विदूषकः सुदं भवदा । तत्तहोदी चित्ते जहा दिट्ठो तहा
दिट्टो भवं ति मन्तेदि । मुद्धा दाणिं मसा विअ रअणभण्डअं जो-
वगवं बहेसि ।
 
राजा - सखे, कुतूहलवानपि निसर्गशा लीनः स्त्रीजनः । पश्य ।
कात्र्येन निर्वर्णयितुं च रूप-
 
१. नमस्ते ।
 
मिच्छन्ति तत्पूर्वसमागमानाम् ।
 
२. सखि, मां विप्रलम्भयसि ।
 
३. नन्वेष चित्रगतो भर्ता ।
 
४. जयतु भर्ता 1
 
५. सखि, तदा संभ्रमदृष्टे भर्त रूपे यथा न वितृष्णास्मि, तथाद्यापि
मया भावितोऽवितृष्णदर्शनो भर्ता ।
 
६. श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति
मन्त्रयति । मुधेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वे वहसे ।
 
यां विप्रलम्भयसि ॥ सूर्योदय इत्यादि । स्पष्टोऽर्थः ॥ नन्वेष चित्रगतो भर्ता ॥ जयतु
भर्ता ॥ सखि, तदा संभ्रमदृष्टे भर्तु रूपे यथा न वितृष्णास्मि, तथाद्यापि मयाभावितोऽ-
वितृष्णदर्शनो भर्ता ॥श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति मन्त्र-
यति। मुधेदानीं मजषेव रत्नभाण्डं यौवनगर्व वह से ॥ कात्सूर्येनेत्यादि । स्पष्टोर्थः॥
 
माल • ७