2026-02-12 06:56:14 by ambuda-bot

This page has not been fully proofread.

७२
 
मालविकाग्निमित्रे
 
नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् ।
 
कार्यसिद्धिपथः सूक्ष्मः स्नेहो नाप्युपलभ्यते ॥ ६ ॥
विदूषकः — तुवरदु भवं समुदधरए सही सहिदं मालविअं
ठाविअ भवन्तं पच्चग्गदो
 

 
राजा – अहमेनां संभावयामि । गच्छाग्रतः ।
 
विदूषकः – ऐदु भवं (परिक्रम्य ।) इदं समुद्दवरं ।
 
राजा - (साशङ्कम् ।) वयस्य, एषा कुसुमावचयव्यग्रहस्ता स-
ख्यास्ते परिचारिका चन्द्रिका संनिकृष्टमागच्छति । इतस्तावदावां
भित्तिगूढौ भवावः ।
 
विदूषकः - अहो कुम्भीलएहिं कामुएहिं च परिहरणीआ
चन्द्रिआ ।
 
(उभे यथोक्तं कुरुतः ।
 
राजा - गौतम, कथं नु ते सखी मां प्रतिपालयति । एहि । एन
गवाक्षमाश्रित्य विलोकयामि ।
 
विदूषकः - ह ।
 
(उभौ विलोकयन्तौ तिष्टतः । )
 
(ततः प्रविशति मालविका बकुलावलिका च । )
 
बकुलावलिका – संहि, पणम भट्टारं ।
 
१. त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन
 
प्रत्युद्गतोऽस्मि ।
 
२. एतु भवान् । इदं समुद्रगृहम् ।
 
३. अहो कुम्भिलकैश्च परिहरणीया खलु चन्द्रिका ।
 
४. तथा ।
 
५.
 
सखि, प्रणम भर्तारम् ।
 
त्यहं संदिष्ट इति । ततो युज्यत इति तयैवं संपादितोऽर्थः ॥ नहि बुद्धीत्याि
स्पष्टोऽर्थः ॥ त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भव
प्रत्युद्गतोऽस्मि ॥ एतु भवान् । इदं समुद्रगृहम् ॥ अहोइत्यामन्त्रणे । कुम्भिलकैःका
कैश्च परिहरणीया खलु चन्द्रिका ॥ तथा ॥ सखि, प्रणम भर्तारम् ॥ नमस्ते ॥ स