2026-02-12 06:56:14 by ambuda-bot

This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
७१
 
राजा - वयस्य, क्षुद्रा माधविका । न किंचिद्विचारितमनया ।
विदूषकः – 'देवीए अङ्गुलीअअमुद्दिअं देक्खिअ कहं वि-
आरेदि ।
 
राजा - न खलु मुद्रामधिकृत्य ब्रवीमि । एतयोर्द्वयोः किंनिमित्तो
मोक्षः । किं वा देव्याः परिजनमतिक्रम्य भवान्संदिष्ट इत्येवमनया
प्रष्टव्यम् ।
 
विदूषकः - पुच्छिदोद्मि । पुणो मन्दस्स मे तस्सि पच्च-
पण मदी ।
 
राजा - कथ्यताम् ।
 
-
 
विदूषकः – मणिदा मए । देवचिन्तएहिं विष्णाविदो राआ ।
सोवसग्गं वो णक्खत्तं । सवबन्धणमोक्खो करीअदु त्ति ।
 
राजा - ( सहर्षम् । ततस्ततः ।
 
विदूषकः - तं सुणिअ देवीए इरावदीचित्तं रक्खन्तीए राज
किल मोदित्ति अहं संदिट्टो त्ति । तदो जुज्जदि ति ताए एवं
संपादिदो अत्थो ।
 
राजा - ( विदूषकं परिष्वज्य ) सखे, प्रियोऽहं तव ।
 
१. देव्या अङ्गुलीयकमुद्रां दृष्ट्वा कथं विचारयति ।
 
२. ननु पृष्टोऽस्मि । पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना मतिः ।
 
३. भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्ग वो नक्ष-
त्रम् । सर्वबन्धनमोक्षः क्रियतामिति ।
 
४. तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयतीत्यहं सं-
दिष्ट इति । ततो युज्यत इति तयैवं संपादितोऽर्थः ।
 
दृष्ट्वा कथं विचारयति ॥ ननु पृष्टोऽस्मि । पुनर्मन्दस्य मे तस्मिन्प्रत्युत्पन्ना मतिः ॥
भणिता मया । दैवचिन्तकैर्विज्ञापितो राजा । सोपसर्गं वो नक्षत्रम् । सर्वबन्धन-
मोक्षः क्रियतामिति ॥ तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयती -