2026-02-12 06:56:12 by ambuda-bot
This page has not been fully proofread.
७०
मालविकाग्निमित्रे
देवीच्छदु अज्जउत्तो कज्जसिद्धीए ।
राजा - आतंपाकान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र-
शस्ता । तदन्यत्र नीयतां शयनम् ।
देवी बालिआओ, अज्जउत्तवअणं अणुचिट्ठह ।
परिजनः — तह ।
(निष्क्रान्ता देवी परित्राजिका परिजनश्च । )
राजा - जयसेने, मां गूढेन पथा प्रमदवनं प्रापय ।
प्रतीहारी - ईदो इदो देवो ।
राजा - जय सेने, समाप्तकरणीयो ननु गौतमः ।
प्रतीहारी - अह ई ।
राजा-
इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा ।
संदिग्धमेव सिद्धौ कातरमाशङ्कते हृदयम् ॥ ५ ॥
(प्रविश्य ।)
विदूषकः - वैदु भवं । सिद्धाई दे मङ्गलकम्माई ।
राजा - जयसेने, त्वमपि नियोगमशून्यं कुरु ।
प्रतीहारी - जं देवो आणवेदि । ( इति निष्कान्ता ।)
१. गच्छत्वार्यपुत्रः कार्यसिद्धये ।
२. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत ।
३. तथा ।
४. इत इतो देवः ।
५. अथ किम् ।
६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि ।
७. यद्देव आज्ञापयति ।
हमिच्छामीति ॥ गच्छवार्यपुत्रः कार्य सिद्धये ॥ बालिका, आर्यपुत्रवचनमनुतिष्ठत ॥
तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽर्थः ॥ वर्धतां भ-
वान् । सिद्धानि ते मङ्गलकर्माणि ॥ यद्देव आज्ञापयति ॥ देव्या अङ्गुलीयकमुद्रां