2026-02-12 06:56:11 by ambuda-bot

This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
राजा - (सहर्षम् । सुष्ठु । प्रयुज्यतां सिद्धये ।
( प्रविश्य । )
 
६५
 
प्रतीहारी - देवे, पवादसयणम्मि देवी णिसण्णा रत्तचन्दण-
धारिणा परिअणहत्थगदेण चलणेण भअवदीए कहाहिं विणोदि-
जमाणा चिट्टदि ।
 
राजा - तेन समादेशयोग्योऽयमवसरः ।
 
विदूषकः - तो गच्छदु भवं । अहं वि देवीं पेक्खिदुं अरि-
पाणी भविस्सं ।
 
राजा - जयसेनायास्तावदस्मद्रहस्यं विदितं कुरु ।
 
विदूषकः - तह । ( इति कर्णे । ) एवं विअ होदि । (इत्यावेद्य नि-
 
ष्क्रान्तः ।)
 
1
 
राजा - जयसेने, प्रवातशयनमार्गमादेशय ।
 
प्रतीहारी - दो इदो देवो ।
 
(ततः प्रविशति शयनस्था देवी परिव्राजिका विभवतश्च परिवारः । )
देवी – अवदि, रमणिज्जं कहावत्थु । तदो तदो ।
परिवाजिका - देवि, अतः परं पुनः कथयिष्यामि ।
 
अत्र भगवान्विदिशेश्वरः संप्राप्तः ।
 
१. देव, प्रवातशयने देवी निपण्णा रक्तचन्दनधारिणा परिजन हस्त-
गतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ।
 
२. तद्गच्छतु भवान् । अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि ।
३. तथा । एवमिव भवति ।
 
४. इत इतो देवः ।
 
५. भगवति, रमणीयं कथावस्तु । ततस्ततः ।
 
नियमेन मालविकाप्राप्तिहेतुत्वान्नियताप्तिर्नाम चतुर्थावस्था सूचिता ॥ अत्रपूर्व प्रकरी -
स्थानोक्तबीजस्यानया नियतात्या समन्वयादवमर्शो नाम चतुर्थसंधिः प्रतिपादित
इति मन्तव्यम् ॥ देव, प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजन हस्तगतेन
चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ॥ तस्माद्गच्छतु भवान् । अहमपि देवीं
द्रष्टुमरितपाणिर्भविष्यामि ॥ तथा । एवमिव भवति ॥ इत इतो देवः ॥ भगवति,