2026-02-12 06:56:03 by ambuda-bot

This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
६३
 
विदूषकः-सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्ड भू-
 
घर गुहाए विअ णिक्खित्ता ।
 
राजा - ननु मत्संपर्कमुपलभ्य ।
 
विदूषकः - अह ई ।
 
राजा - क एवं विमुखोऽस्माकम् । येन चण्डीकृता देवी ।
विदूषकः – सुणादु भवं । परिव्वाजिआए मे कहिदं । हिओ
किल तत्तहोदी इरावदी रुअक्कन्तचलणं देवं सुहपुच्छिआ आअदा ।
 
राजा - ततस्ततः ।
 
विदूषकः - दोसा देवीए पुच्छिदा । किंणु ओवलोइदो वल्ल-
हजणो ति । ताए उत्तं । मन्दो वो उवआरो । जं परिजणे संकतं
वल्लत्तणं ण जाणीअदि ।
 
राजा - निर्भेदादृतेऽपि मालविकायामयमुपन्यासः शङ्कयति ।
विदूषकः - तंदो ताए अणुविजमाणा सा भवदो अविण अं
अन्तरेण परिगदत्था किदा ।
 
१. सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव
निक्षिप्ता ।
 
२. अथ किम् ।
 
३. शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः किल तत्रभवती-
रावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकागता ।
 
४. ततः सा देव्या पृष्टा । किं न्ववलोकितो वलभजन इति । तयोक्तम् ।
मन्दो व उपचारः । यत्परिजने संक्रान्तं वल्लभत्वं न ज्ञायते ।
 
५. ततस्तयानुखिद्यमाना सा भवतोऽविनयमन्तरेण परिगतार्था कृता ।
तिकायाः सा खलु तपखिनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव नि-
क्षिप्ता ॥ अथ किम् ॥ शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः पूर्वेद्युः किल
तत्रभवतीरावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकया गता ॥ ततः सा देव्या पृष्टा । किं
न्ववलोकितो वहभजन इति । तयोक्तम् । मन्दो व उपचारः । यत्परिजने संक्रान्तं
वल्लभत्वं न ज्ञायते ॥ निर्भेदादृतेऽपि स्फुटीकरणं विनापि ॥ ततस्तयानुखिद्यमाना सा
भवतोऽविनयमन्तरेण परिगतार्था कृता । धारिणी राजाविनयमिरावत्याः सकाशा