2026-02-12 06:55:49 by ambuda-bot

This page has not been fully proofread.

६२
 
मालविकाग्निमित्रे
 
चतुर्थोऽङ्कः ।
 
(ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च । )
 
राजा - ( आत्मगतम् । )
 
तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः
 
संप्राप्तायां नयनविषयं रूढरागः प्रबालः ।
हस्तस्पर्शैर्मुकुलित इव व्यक्तरोमोद्गमत्वा-
 
कुर्यात्कान्तं मनसिजतरुर्मी रसज्ञं फलस्य ॥ १ ॥
 
( प्रकाशम् ।) सखे गौतम ।
 
प्रतीहारी - जेदु जेदु भट्टा । असंणिहिदो गोदमो ।
राजा - (आत्मगतम्) आः, मालविका वृत्तान्तज्ञानाय मया
प्रेषितः ।
 
विदूषकः—वैदु भवं ।
 
( प्रविश्य । )
 
राजा -- जयसेने, जानीहि तावत्क देवी धारिणी सरुजचरण-
त्वाद्विद्यत इति ।
 
प्रतीहारी - जं देवो आणवेदि । ( इति निष्क्रान्ता ।)
 
राजा - गौतम, को वृत्तान्तस्तत्रभवत्यास्ते सख्याः ।
विदूषकः – जो बिडालगहीदाए पर हुदिआए ।
राजा - (सविषादम् ।) कथमिव ।
 
१. जयतु जयतु भर्ता । असंनिहितो गौतमः ।
२. वर्धतां भवान् ।
 
३. यद्देव आज्ञापयति ।
 
४. यो बिडाल गृहीतायाः परभृतिकायाः ।
 
कविरिदानीमङ्कान्तरमारभते - ततः प्रविशतीत्यादिना । तामिति । मु
कुलित इव संजातमुकुल इव कान्तं कामनायुक्तं कुर्यादिति प्रार्थनायां लिङ् । अत्र
प्रसञ्जितं बीजं प्रकरीस्थाने कृतमिति मन्तव्यम् ॥ जयतु जयतु भर्ता । असंनि-
हितो गौतमः ॥ वर्धतां भवान् ॥ यद्देव आज्ञापयति ॥ यो बिडालगृहीतायाः परभृ-