2026-02-12 06:55:48 by ambuda-bot
This page has not been fully proofread.
तृतीयोऽङ्कः ।
६१
गदा एसा । ता वअं सिग्घं अवकमाम । जाव अङ्गारओ रासिं वि-
अ अणुवङ्कं परिगमणं ण करेदि ।
राजा - अहो मदनस्य वैषम्यम् ।
मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥
( इति निष्क्रान्तः सह वयस्येन । )
इति तृतीयोऽङ्कः ।
-
प्रसन्ना गतैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवक्रं प्रति .
गमनं न करोति ॥ मन्य इत्यादि । प्रियाहृतमना मालविकाहृतमनाः प्रणि-
पातलङ्घनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः
फलमाह — कुपिता क्रुद्धा प्रणयवती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि-
पातलङ्घनरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हि शक्या खलु । शक्यमिति
निपातः । अत्र वीजानुसंधानादाक्षेपो नाम संध्यङ्गमुक्तं भवति । इदमनुसंधानमेवो-
त्तराङ्ककथोपयोगित्वाद्विन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते
कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने तृतीयोऽङ्कः ॥
माल० ६