2026-02-12 06:55:49 by ambuda-bot

This page has not been fully proofread.

मालविकाग्निमित्रे
 
राजा - इयमिरावती
बाप्पासारा हेमकाञ्चीगुणेन
श्रोणीबिम्बादप्युपेक्षाच्युतेन ।
चण्डी चण्डं हन्तुमभ्युद्यता मां
 
विद्युद्दाम्ना मेघराजीव विन्ध्यम् ॥ २१ ॥
 
इरावती - किं मं एव भूओ वि अवरद्धं करेसि ।
राजा - ( सरशनं हस्तमवलम्बयति ।)
 
अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि ।
वर्धयसि विलसितं त्वं दासजनायाद्य कुप्यसि च ॥ २२ ॥
नूनमिदमनुज्ञातम् । (इति पादयोः पतति ।)
 
इरावती - खु इमे मालविआचलणा, जा दे हरिसदोहलं
पूरयिस्सन्ति । (इति निष्क्रान्ता सह चेट्या ।)
 
विदूषकः — उहि । किदप्पसादोऽसि ।
 
राजा - (उत्थाय इरावतीमपश्यन् । ) कथं गतैव प्रिया ।
विदूषकः - अस्स, दिट्टिआ इमस्स अविणअस्स अप्पसण्णा
 
१. किं मामेव भूयोऽप्यपराद्धां करोषि ।
 
२. न खल्विमौ मालविकाचरणौ यौ ते हर्षदोहदं पूरयिष्यतः ।
३. उत्तिष्ठ । कृतप्रसादोऽसि ।
 
४. वयस्य, दिष्ट्या अनेनाविनयेनाप्रसन्ना गतैषा तद्वयं शीत्रमपत्र-
मामः । यावदङ्गारको राशिमिवानुवक्रं प्रतिगमनं न करोति ।
 
तस्मिन्मयि राठ इति गूढविप्रियकारीति अवधीरणा तिरस्कारोऽस्तु । अतः 'अति-
परिचयादवज्ञा' इति वदन्ति । तस्मादियमवधीरणा युक्तैवेत्यर्थः । हे चण्डि अ-
त्यन्तकोपने, चरणपतितया मेखलया रशनया याचितापि प्रार्थितापि तामवधीरणां
न विसृजसि न त्यजसि । किमिदं युक्तमिति शेषः ॥ इयमपि हताशा त्वामेवानु-
सरति ॥ बाप्पासारेत्यादि । स्पष्टोऽर्थः ॥ किं मामेव भूयोऽप्यपराद्धां करोषि ॥
अपराधिनीत्यादि । स्पष्टोऽर्थः ॥ नूनमित्यादि । इदमेतद्रशनासंहरणमनु-
ज्ञातमनुमतम् । मत्प्रार्थनाया इति शेषः ॥ न खल्विमौ मालविकाचरणौ, यो ते
हर्ष दोहदं पूरयिष्यतः ॥ उत्तिष्ठ । कृतप्रसादोऽसि ॥ वयस्य, दिष्ट्या अनेनाविनयेना-